इन्द्रायांहोमुचा एकादशकपालं निर्वपेद् आमयाविनं यजयेद् एषा वा इन्द्रस्य भेषजा तनूर् यद् अंहोमुक् तम् एव भागधेयेनोपासरत् स एनम् अंहसो मुञ्चतीन्द्राय त्रात्र एकादशकपालं निर्वपेद् यो ज्यान्या मारणाद् अपरोधाद् वा बिभीयाद् इन्द्रो वै त्रातेन्द्रो ऽपरोद्धा तम् एव भागधेयेनोपासरत् स एनं त्रायत इन्द्रायान्वृजवा एकादशकपालं निर्वपेज् ज्येष्ठबन्धुर् इन्द्रियं वै ज्येष्ठबन्धुर् इन्द्रियेणैवैनान् अन्वृजून् कुरुत इन्द्राय प्रबभ्रायैकादशकपालं निर्वपेत् सङ्ग्रामे प्रवभ्रो वा इन्द्रो वृत्राय वज्रं प्राहरत् प्रबभ्र एवैभ्यो वज्रं प्रहरतीन्द्राय वैमृधायैकादशकपालं निर्वपेत् सङ्ग्रामे मृधो वा एष विहन्ति यः सङ्ग्रामं जयति मृध एव विहत इन्द्रायाभिमातिघ्न एकादशकपालं निर्वपेत् सङ्ग्रामे ऽभिमातीर् वा एष हन्ति यः स्माग्रामं जयत्य् अभिमातीर् एव हत इन्द्रायाभिमातिषाहा एकादशकपालं निर्वपेद् यः कामयेत विषहेयाभयं मे स्याद् इतीन्द्रो वै वृत्राय वज्रम् उदयछत् तं दानवा नान्वमन्यन्त तम् एतेन भागधेयेनान्वमन्यन्त ततो वै सो ऽभिमातीर् अहन् वृत्रम् अहन् वृत्रं खलु वा एष हन्ति यः सङ्ग्रामं जयति तद् वार्त्रघ्नम् एवैतत् ॥म्स्_२,२।१०॥
वैमृधायैकादशकपालं : फ़्न् एमेन्देद्। एद्।: वै मृधायैकादशकपालं