इन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेन् निरुद्धं याजयेद् अन्तं वा एष गतो यो निरुद्धो ऽन्तो ऽर्को ऽन्तो ऽश्वमेधो ऽन्तेनैवास्मा अन्ते कल्पयति वशा दक्षिणा वशं मा नयाद् इतीन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेद् यः कामयेत जने म ऋध्येतेत्य् अन्तो वा एषा ऋद्धीनां यज् जनो ऽन्तो ऽर्को ऽन्तो ऽश्वमेधो ऽन्तेनैवास्मा अन्ते कल्पयति वशा दक्षिणा वशं मा नयाद् इतीन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेद् गतश्रीर् यदा वै श्रियो ऽन्तं गछत्य् अथ पापीयान् भवत्य् अन्तो ऽर्को ऽन्तो ऽश्वमेधो ऽन्तम् एवालब्ध न पापीयान् भवतीन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेद् यः कामयेत महायज्ञो मोपनमेद् इत्य् एते वा इन्द्रस्य यज्ञिये तन्वौ यद् अर्कश् चाश्वमेधश् च ते एवालब्ध ताभ्यां महायज्ञम् आलभत इन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेद् इन्द्राय मन्युमते मनस्वता एकादशकपालम् इन्द्रायेन्द्रियवता एकादशकपालम् इन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं भूतिकामं याजयेद् इदं वा इन्द्रस्य घर्मश् च सूर्यश् चेदम् अस्य मन्युश् च मनश् चेदम् अस्येन्द्रश् चेन्द्रियं चेदम् अस्यार्कश् चाश्वमेधश् चैतानि वै सर्वाणीन्द्रो ऽभवद् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद ॥म्स्_२,२।९॥