प्रजापतिर् वै देवेभ्यो भागधेयानि व्यकल्पयत् स इन्द्रो ऽब्रवीद् यद् अतिरिच्यते तन् ममेति तद् वा इन्द्रियम् एवात्यरिच्यत तद् इमांल् लोकान् ऊर्ध्वम् अनूदश्रयत तन् नैकेनाप्नोन् न द्वाभ्यां तत् तृतीयेनाप्त्वावारुन्द्ध यत् त्रयः पुरोडाशा भवन्त्य् एभ्यो वा एतल् लोकेभ्य इन्द्रियं वीर्यम् आप्त्वावरुन्द्ध उत्तरौत्तरः पुरोडाशो ज्यायान् भवत्य् उत्तर उत्तरो हि लोको ज्यायान् इन्द्राय राज्ञे प्रथम इन्द्राय स्वराज्ञे मध्यम इन्द्रायाधिराजायोत्तम एतानि वै सर्वाणीन्द्रो ऽभवद् राज्यं स्वाराज्यम् आधिराज्यम् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद प्रथमाम् अनूच्य मध्यमया यजेन् मध्यमाम् अनूच्योत्तमया यजेद् उत्तमाम् अनूच्य प्रथमया यजेद् एवम् अस्य सर्वा अनुवाक्या भवन्ति सर्वा याज्या एषां लोकानां प्रतिप्रज्ञात्यय् अथो अनुसन्तत्यईन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेत् तेजस्कामस् तेजो वै घर्मस् तेजः सूर्यस् तेज एवावरुन्द्ध इन्द्रायेन्द्रियवता एकादशकपालं निर्वपेत् पशुकाम इन्द्रियं वै पशव इन्द्र इन्द्रियस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मा इन्द्रियं पशून् प्रयछति ॥म्स्_२,२।८॥
एतल् : फ़्न् एमेन्देद्। एद्।: एतं