०७

आग्नेयम् अष्टाकपालं निर्वपेत् सावित्रं चरुं वायव्यां यवागूं प्रतिधुग् वा भौमम् एककपालं यस्य हिरण्यं नश्येद् यो वा हिरण्यं विन्देद् अग्निर् वा अग्रे हिरण्यम् अविन्दत् स सवित्रामन्त्रयत न खलु वै किञ्चन वायुनानभिगतम् अस्त्य् अस्यां वै स तद् अविन्दद् वित्त्या एवाग्नेयः प्रसवाय सावित्रो ऽभिनीत्यै वायव्याथ यद् भौमो ऽस्यां हि स तद् अविन्दद् एते वै प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै प्रयछन्ति स यदा विन्देद् अथैतेभ्य एव निर्वपेद् यैर् एवाविन्दत् तान् भागिनः करोत्य् अहिंसायै प्रजापतिर् वै सोमाय राज्ञे दुहितॄर् अददान् नक्षत्राणि स रोहिण्याम् एवावसन् नेतरासु ता अनुपेयमानाः पुनर् अगछंस् तं राजयक्ष्मेणाग्रहयत् स निरस्रवत् तस्माद् राजयक्ष्मगृहीतो निःस्रवति स वै प्रजापतिम् एवोपाधावत् तं प्रजापतिर् अब्रवीद् ऋतं ब्रूहीति स ऋतम् अब्रवीद् यथा सर्वास्व् एव समावद् वसानीति तस्माद् एष सर्वास्व् एव समावद् वसति तस्मै वै प्रजापतिः प्रायश्चित्तिम् ऐछत् तस्मा अमावास्यायां वैश्वदेवं चरुं निरवपत् तेनास्मै प्रायश्चित्तिम् अविन्दत् सो ऽमुम् आप्यायमानम् अन्वाप्यायत वसीयान् अभवद् यो राजयक्ष्मगृहीतः स्यात् तस्मा अमावास्यायां वैश्वदेवं चरुं निर्वपेद् एतेन वै स तस्मै प्रायश्चित्तिम् अविन्दत् तेनैवास्मै प्रायश्चित्तिं विन्दत्य् अमुम् एवाप्यायमानम् अन्वाप्यायते वसीयान् भवति ॥म्स्_२,२।७॥