परमेष्ठिने द्वादशकपालं निर्वपेद् यः कामयेत परमेष्ठी स्याम् इति परमेष्ठी वा एष देवानां यः परमेष्ठी परमेष्ठी राजन्यो मनुष्याणां तम् एव भागधेयेनोपासरत् स एनं परमेष्ठिनं करोति तस्मै धनुश् च तिस्रश् च प्रयछेत् ॥ अग्निष् टे तेजः प्रयछत्व् इन्द्र इन्द्रियं पित्र्यां बन्धुताम् ॥ इत्य् अग्निर् एवास्मै तेजः प्रयछतीन्द्रं इन्द्रियं पित्र्यां बन्धुतां वैश्वदेवं द्वादशकपालं निर्वपेद् भ्रातृव्यवांस् तं बर्हिषदं कृत्वा समया स्फ्येन व्य्·हेत् ॥ इदम् अहं मां चामुं च व्य्·हामि ॥ इति यं द्विष्यात् तं यद् अधो ऽवमृद्येत यच् च स्फ्य आश्लिष्येत् तद् विष्णव उरुक्रमायावद्येद् विष्णुर् एवैना अन्तरा विक्रमते तं पुनः समूहेत् ॥ इदम् अहं मां चामुं च समूहामि ॥ इति यो ऽस्य प्रियः स्यात् तं वैश्वदेवीर् वा इमाः प्रजास् ताभिर् एवेतरं व्यूहति ताभिर् आत्मानं समूहतीन्द्राण्यै चरुं निर्वपेत् सेनायाम् उत्तिष्ठन्त्यां सेना वा इन्द्राणी ब्रह्मणैवैनां पुरस्तान् मुखतो जित्यै संश्यति बल्बजा अपीध्मे स्युः शक्नो वा एते ऽध्युत्थिता न्यायेनैवैनाम् अभिनयति यत् तस्यां सेनायां विन्देत सा दक्षिणा वाचस्पतये चरुं निर्वपेञ् श्रीकामो यो वै वाचो ऽध्यक्षः स वाचस्पतिस् तञ् श्रीकरणम् एवैतत् ॥म्स्_२,२।५॥
अग्नये वसुमते सतीनानाम् अष्टाकपालं निर्वपेत् सोमाय रुद्रवते श्यामाकं चरुम् इन्द्राय मरुत्वते नैवारम् एकादशकपालं वरुणायादित्यवते यवमयं चरुं देवा अन्योन्यस्य श्रैष्ठ्ये तिष्ठमानाश् चतुर्धा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैस् तान् वा एतया बृहस्पतिर् अयाजयत् सञ्ज्ञान्यात इन्द्रम् एवाभिसमावर्तन्तेन्द्रम् अभिसमजानत तद् य एतया यजते तम् एवाभिसमावर्तन्ते तम् अभिसञ्जानते तद् आहुर् ऐन्द्र एकादशकपालः कार्या इतीन्द्रं हि ते ऽभिसमावर्तन्तेन्द्रम् अभिसमजानत ॥
श्रैष्ठ्ये : फ़्न् एमेन्देद्। एद्।: श्रीष्टे। च्फ़्। ३।७।१०:९०।१
सञ्ज्ञानं नो दिवा पशोः सञ्ज्ञानं नक्तम् अर्वतः ।
सञ्ज्ञानं नः स्वेभ्यः सञ्ज्ञानम् अरणेभ्यः सञ्ज्ञानम् अश्विना युवम् इहास्मभ्यं नियछतम् ॥
सम् इन्द्र राया सम् इषा रभेमहि सं वाजैः पुरुश्चन्द्रैर् अभिद्युभिः ।
सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्ववत्या रभेमहि ॥
गोअग्रयाश्ववत्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
इन्द्रवायू सुसन्दृशा सुहवेह हवामहे ।
यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥
सं वो मनांसि सं व्रता सम् आकूतीर् अनंसत ।
अमी ये विव्रताः स्थ तान् वः सन्नमयामसि ॥
समाना वा आकूतानि समाना हृदयानि वः ।
समानम् अस्तु वो मनो यथा वः सुसहासति ॥
समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तम् एषाम् ।
समानं क्रतुम् अभिमन्त्रयध्वं समानेन वो हविषा जुहोमि ॥
सङ्गछध्वं सञ्जानीध्वं सं वो मनांसि जानताम् ।