०४

बार्हस्पत्यं चरुं निर्वपेद् गार्मुतं पशुकामः प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयंस् तान् बृहस्पतिश् चान्वैतां ते यत्रावसंस् ततः शक्नो गर्मुद् अजायत तं वा अब्रवीद् अनेन मा याजयेति तेन वा एनम् अयाजयत् तं पशव उपावर्तन्त यः पशुकामः स्यात् तम् एतेन याजयेद् उप हैनं पशवा आवर्तन्ते यदा हि स तम् एतेनायाजयद् अथ तं पशव उपावर्तन्त सौमापौष्णं चरुं निर्वपेद् गार्मुतं पशुकामः प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयंस् तेषां पूषणम् अधिपाम् अकरोत् ते यत्रावसंस् ततः शक्नो गर्मुद् अजायत तं वा आहरद् अनेन मे प्रतिष्ठेति स सोमो ऽब्रवीन् मम वा अकृष्टपच्यम् इति तं सौमापौष्णं निरवपत् तं पशव उपावर्तन्त यः पशुकामः स्यात् तम् एतेन याजयेद् उप हैनं पशवा आवर्तन्ते यदा हि स तम् एतेनायाजयद् अथ तं पशव उपावर्तन्त सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयति प्राजापत्यं चरुं निर्वपेद् गार्मुतं पशुकामः पृश्नीनां गवां दुग्धे पृश्नीनां गवाम् आज्यं स्यात् तत्रापि गोमूत्रस्याश्चोतयेयुः पृश्निर् वै यद् अदुहत् स गर्मुद् अभवद् इयं वै पृश्निर् वाग् वा तस्या वा एतञ् शिरो यद् गर्मुतस् तस्माद् एतद् आण्डम् इव पीयूष इव तं प्राजापत्यं चरुं निर्वपेत् पशुकामः प्राजापत्या वै पशवः प्रजापतिः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति वास्त्वमयं रौद्रं चरुं निर्वपेद् यत्र रुद्रः प्रजाः शमायेत वास्तोर् वै वास्त्वं जातं वास्त्वमयं खलु वै रुद्रस्य स्वेनैवैनं भागधेयेन शमयति तया निषादस्थपतिं याजयेत् सा हि तस्येष्टिः कूतं दक्षिणा कर्णो वा गर्दभः ॥म्स्_२,२।४॥