०३

बार्हस्पत्यं चरुं निर्वपेत् पुरोधाकामस् तस्य बार्हस्पत्ये ज्योतिष्मती याज्यानुवाक्ये स्यातां ब्रह्म वै बृहस्पतिर् बार्हस्पत्यो ब्राह्मणो देवतया स्वाम् एव देवतां पुरोधाया उपासरत् स्वैनं देवता पुरोधां गमयति यद् वै लेलायद् वीव भाति तज् ज्योतिस् तस्माज् ज्योतिष्मती यदि नेव पुरोधां गछेद् ऐन्द्राबार्हस्पत्यं हविर् निर्वपेद् ब्रह्म चैव क्षत्रं च सयुजा अकस् ताजग् एनं पुरोदधते बार्हस्पत्यं चरुं निर्वपेत् पयसि ग्रामकामो वा पशुकामो वा तस्य बार्हस्पत्ये गणवती याज्यानुवाक्ये स्यातां यो बहुपुरुष्टस् तस्य गृहात् क्षीरम् आहरेयुः स्यात् स्वासां गवां दुग्धं स्याद् उदकं पुष्टिर् एवैषा सम्भ्रियते ब्रह्म वै बृहस्पतिर् बृहस्पतिश् छन्दांसि छन्दोभिर् बृहस्पतिर् गणी स्वां वा एतद् देवतां भूयिष्ठेनार्पयति सजातैर् एनं गणिनं करोति ब्राह्मणस्पत्यं चरुं निर्वपेत् सङ्ग्रामे तस्य ब्राह्मणस्पत्ये वीरवती वयस्वती याज्यानुवाक्ये स्यातां छदिर् दर्शे याजयेद् उद्बर्हिः प्रस्तरः स्याद् बाणवन्तः परिधयो वयांसि परं ग्रामम् आविशन्ति तथा विज्ञेयं जेष्यामा इति ब्रह्म वै ब्रह्मणस्पतिर् ब्रह्मैवोपासरद् ब्राह्मणस्पत्यं चरुं निर्वपेद् यत्र कामयेत ब्रह्मबलं स्याद् इति तस्य ब्राह्मणस्पत्ये मरुत्वती याज्यानुवाक्ये स्यातां ब्रह्म वै ब्रह्मणस्पतिर् विण् मरुतो ब्रह्मणि वा एतद् विशम् अधि विनाशयति द्रढिम्ने ऽशिथिरत्वाय ॥म्स्_२,२।३॥
लेलायद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।