यां त्वा जनो भूमिर् इति प्रमन्दते निरृतिं त्वाहं परिवेद विश्वतः ॥ इति निरृतिगृहीतो वा एष यो निरुद्धो निरृत्या एवैनं तेन मुञ्चत्य् एतद् वै विशम् अवागन्न् अथ वा अस्य राज्यम् अन्वगतं तद् यो ऽमी कृष्णा व्रीहयस् तं वारुणं घृते चरुं निर्वपेद् वरुणो वै देवानां राजा स राज्यस्यावगमयिता तम् एव भागधेयेनोपासरत् स एनं राज्यम् अवगमयत्य् एतद् वै नानाविश्यम् उभयीम् एवैतेन विशम् अवगछति दैवीं च मानुषीं च ॥म्स्_२,२।१॥