ऐन्द्राबार्हस्पत्यं हविर् निर्वपेद् यो राष्ट्रीयो नेव प्रस्तिङ्नुयाद् अदितिर् वै प्रजाकम् औदनम् अपचत् सोञ्शिष्टम् आश्नात् तं वा इन्द्रम् अन्तर् एव गर्भं सन्तम् अयस्मयेन दाम्नापौम्भत् सो ऽपोब्धो ऽजायत तं वा एतेन बृहस्पतिर् अयाजयद् ऐन्द्राबार्हस्पत्येन तस्य तद् दाम स्वयम् एव व्यपद्यत स इमा दिशो वज्रेणाभिपर्यावर्तत यो राष्ट्रीयो नेव प्रस्तिङ्नुयात् तम् एतेन याजयेद् ऐन्द्राबार्हस्पत्येन परिततो हि वा एष पाप्मनाथैष न प्रस्तिङ्नोति बृहस्पतये निरुप्यत इन्द्राय क्रियते सर्वत एवैनं मुञ्चति वज्रेणेमा दिशो ऽभिपर्यावर्तते ॥म्स्_२,१।१२॥
आदित्या भागं वः करिष्याम्य् अमुम् आमुष्यायणम् अवगमयत ॥ इति ब्रूयाद् धविर् निर्वप्स्यन् स एतम् आदित्यं घृते चरुं निर्वपेद् आदित्या वा इमाः प्रजास् ता एवोपासरत् ता एनम् अवगमयन्ति सप्ताश्वत्था मयूखा अन्तर्वेदि शयीरंस् तान्त् संस्थिते रथवाहनस्य मध्यमेषायाम् अतिहन्यात् ॥
इदम् अहम् आदित्यान् बध्नाम्य् आमुष्यावगमः ॥ इत्य् आदित्यान् वा एतद् बध्नाति त एनं मोक्षमाणा अवगमयन्ति विशो वीर्यम् अपाक्रामत् तद् अश्वत्थं प्राविशत् स तेन वीर्येण भर्भराभवत् तद् विश एवैतेन वीर्यम् अवरुन्द्धे यदि सप्तसु नावगच्छेद् इध्मे तान् अपि कृत्वैतद् एव हविर् निर्वपेद् आदित्या वा इमाः प्रजास् ता एवोपासरत् ता एनम् अवगमयन्ति यद्य् एव सप्तसु त्रिर् वै सप्त सप्तादित्यास् तान् एवोपासरत् ता एनम् अवगमयन्ति यद्य् एकतयीषु द्वयीषु वावगछेद् अपरोधुका एनं स्युर् अथ यत् सर्वास्व् अवगछति तथा हानपरोध्यो ऽवगछति स यदावगछेद् अथादित्येभ्यो धारयद्वद्भ्यो घृते चरुं निर्वपेद् आदित्या वा अपरोद्धार आदित्या अवगमयितारस् त एनं दाध्रति ॥
अदिते ऽनुमन्यस्व सत्याशीर् इह मनः ॥ इति निरुद्धस्य राज्ञः पदम् आददीत तद् यः पुरस्ताद् ग्राम्यवादीव स्यात् तस्य सभाया अभिवातं परीत्य विध्वंसयेयुः ॥
प्रेत मरुतः स्वतवस एना विश्पत्यामुं राजानम् अभि ॥ इति तस्य गृहाद् व्रीहीन् आहरेयुस् तांस् त्रेधा विचिनुयाद् ये कृष्णास् तान् कृष्णाजिन उपनह्य निदध्याद् ये शुक्लास् तम् आदित्यं घृते चरुं निर्वपेद् अदित्या वा इमाः प्रजास् ता एवोपासरत् ता एनम् अवगमयन्त्य् अथ येभ्यो ऽधि विचिनुयात् तान् उदङ् परेत्य वल्मीकवपाम् उद्रुज्य जुहुयात् ॥
यद् अद्य ते घोर आसन् जुहोम्य् एषां बन्धानां प्रमोचनाय ।