११

ओजो ऽसि सहो ऽसि बलम् असि भ्राजो ऽसि देवानां धाम नामासि विश्वम् असि विश्वायुः सर्वम् असि सर्वायुर् अभिभूः ॥ इति संवत्सरो वै गायत्री संवत्सरो वै तद् अतिष्ठत् संवत्सरं वा एषां तद् अन्नाद्यम् अवृञ्जत तत् संवत्सरम् एवैतद् अन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते सैषा गायत्रीष्टिर् अथो आहुर् राष्ट्रस्य संवर्ग इति ॥म्स्_२,१।११॥