१०

अग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्य प्रज्ञातेष्टिर् अतिपद्येत बहिष्पथं वा एष एति यस्य प्रज्ञतेष्टिर् अतिपद्यते ऽग्निर् वै देवानां पथिकृत् तम् एव भागधेयेनोपासरत् स एनं पन्थाम् अपिनयत्य् अनड्वान् दक्षिणा स हि पन्थाम् अपिवहत्य् अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् य आहिताग्निः सन् प्रवसेद् बहु वा एष व्रतम् अतिपादयति य आहिताग्निः सन् प्रवसति व्रत्ये ह्य् अहनि स्त्रियं वोपैति मांसं वाश्नात्य् अग्निर् वै देवानां व्रतपतिस् तम् एव भागधेयेनोपासरत् स एनं व्रतम् आलम्भयत्य् अग्नये व्रतभृते ऽष्टाकपालं निर्वपेद् य आहिताग्निः सन्न् अश्रु कुर्याद् आनीतो वा एष देवानां य आहिताग्निस् तस्माद् एतेनाश्रु न कर्तवै न हि देवा अश्रु कुर्वन्त्य् अग्निर् वै देवानां व्रतभृद् अग्निम् एतस्य व्रतम् अगंस् तस्माद् एवाधिव्रतम् आलभते ऽग्नये यविष्ठायाष्टाकपालं निर्वपेद् अभिचर्यमाणो याभिर् एवैनम् इतरः प्रयुक्तिभिर् अभिप्रयुङ्क्ते ता अस्माद् यविष्ठो योयावाग्नये वाजसृते ऽष्टाकपालं निर्वपेत् सङ्ग्रामे वाजं वा एष सिसीर्षति यः सङ्ग्रामं जिगीषत्य् अग्निर् वै देवानां वाजसृत् तम् एव भागधेयेनोपासरत् सो ऽस्मै वाजं धावत्य् अग्नये ऽनीकवते ऽटाकपालं निर्वपेत् सङ्ग्रामे यद्र्यग् वा अग्नेर् अनीकम् एति न तत् प्रतिधृषे ऽग्निर् एवास्मा अनीकानि जयति विष्णुम् अप्य् आज्यस्य यजेद् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते ऽग्नये रुद्रवते ऽष्टाकपालं निर्वपेद् यः कामयेत रुद्रायास्य पशून् अपिदध्याम् इत्य् अग्निर् वै रुद्रो रुद्रायैवास्य पशून् अपिदधाति यदि कामयेत शाम्येद् इत्य् अग्नये सुरभिमते ऽष्टाकपालं निर्वपेद् एषा वा अग्नेर् भेषजा तनूर् यत् सुरभिर् भेषजम् एवास्मा अकः सुरभिम् एनम् अकः शमयत्य् एवाग्नये ऽन्नवते ऽन्नादायान्नपतये ऽष्टाकपालं निर्वपेद् यः कामयेतान्नवान् अन्नादो ऽन्नपतिः स्याम् इत्य् अग्निर् वै देवानाम् अन्नवान् अन्नादो ऽन्नपतिस् तम् एव भागधेयेनोपासरत् स एनम् अन्नवन्तम् अन्नादम् अन्नपतिं करोति ॥म्स्_२,१।१०॥

अग्नये रक्षोघ्ने ऽष्टाकपालं निर्वपेद् यो रक्षोभ्यो बिभीयाद् इन्द्रं वै रक्षांस्य् असचन्त सो ऽग्निं प्राविशत् तानि वा एनम् अभिसममृशन् स एता विप्रुषो ऽजनयत या इमाः स्कूयमानस्य विप्रवन्ते तानि वा अग्निनैवापाहताग्निर् वै देवानां रक्षोहा तेनैव रक्षांस्य् अपहते नक्तं याजयेन् नक्तं वै रक्षांसि प्रेरते यर्ह्य् एव प्रेरते तर्ह्य् एनान्य् अपहते वामदेवस्य पञ्चदश सामिधेनीश् च स्युर् याज्यानुवाक्याश् च वामदेवश् च वै कुसितायी चाजीम् अयाताम् आत्मनोः सा कुसितायी वामदेवरथस्य कूबरम् अछिनत् सापरं न्याप्लवत युगं वा छेत्स्यामीषां वेति सो ऽग्निम् उख्यम् अवैक्षत स एतं मन्त्रम् अपश्यत् ताम् अर्चिर् उदौषत् सार्चिषा दह्यमाना ह्रदं प्राविशत् स वाव कौसितो ह्रदो रक्षांसि वै स तेनापाहत तद् रक्षांस्य् एवैतेनापहत आग्नेयम् अष्टाकपालं निर्वपेद् यो राष्ट्रे स्पर्धेत यो वा कामयेतान्नादः स्याद् इति देवाश् च वा असुराश् चास्पर्धन्त तान् गायत्री सर्वम् अन्नं परिगृह्यान्तरातिष्ठत् ते ऽविदुर् यतरान् वा इयम् उपावर्त्स्यति त इदं भविस्यन्तीति तस्यां वा उभय ऐछन्त तां नाम्नोपैप्सन् ॥

दाभि ॥ इत्य् असुरा आह्वयन् ॥

विश्वकर्मन् ॥ इति देवाः सा नान्यतरांश् चनोपावर्तत तां देवा एतेन यजुषावृञ्जत ॥