आग्निमारुतं चरुं निर्वपेद् वृष्टिकामः समान्या मृदश् चरुं च कुर्युः कुम्भं च यस्मिन्न् एवाग्नौ चरुं पचेयुस् तस्मिन् कुम्भं धूपयेयुर् धूमो वा अस्यामूं गछति नार्चिस् तस्माद् एतं धूपयन्ति न पचन्ति यदा हवींश्य् आसादयेयुर् अथ दक्षिणायां श्रोण्यां कुम्भम् आसाद्योदकेन पूरयेयुर् यदि पुरा संस्थानाद् वीर्येताद्य वर्षिष्यतीति ब्रूयाद् यदि संस्थिते श्वो व्रष्टेति ब्रूयाद् यदि चिरम् इव वीर्येत नाद्धा विद्मेति ब्रूयाद् अग्निर् वा इतो वृष्टिम् ईट्टे मरुतो ऽमुतश् च्यावयन्त्य् एते वै वृष्ट्याः प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै वृष्टिं प्रयछन्ति मारुतं चरुं निर्वपेत् पयसि प्रैयङ्गवं ग्रामकामो वा पशुकामो वा पृश्नीनां गवां दुग्धे पृश्नीनां गवाम् आज्यं स्यात् तत्रापि गोमूत्रस्याश्चोतयेयुः पृश्निर् वै यद् अदुहत् स प्रियङ्गुर् अभवद् इयं वै पृश्निर् वाग् वा तस्या वा एतत् पयो यत् प्रियङ्गवः स्वेनैवैनां पयसाछैति प्रियवती याज्यानुवाक्ये भवतः प्रियम् एनं सजातानां करोति द्विपदा च चतुष्पदा च भवतो द्विपदश् चैवास्मै चतुष्पदश् च पशून् अवरुन्द्धे यथा वत्स ऊधर् अभ्यायछति वत्सं वा गौर् एवम् एनं सजाता अभ्यायछन्ति मारुतं त्रयोदशकपालं निर्वपेद् यस्य यमौ पुत्रौ गावौ वा जायेयातां निर्वीरतां वै पुरुषो यमो जात आशास्ते ऽपशुतां गौर् यत् त्रयोदशं प्रजापतिर् वै त्रयोदशं प्रजापतिम् एवाप्नोति यद् द्वादशं संवत्सरात् तेन यद् गायत्र्य् अनुवाक्या संवत्सरात् तेन यज् जगती याज्या पशुभ्यस् तेन यन् मारुतीष्टिः पशुभ्यस् तेन मारुतं सप्तकपालं निर्वपेद् यत्र विड् राजानं जिज्यासेद् अगस्त्यस्य कयाशुभीयं सामिधेनीश् च स्युर् याज्यानुवाक्याश् चागस्त्यो वै मरुद्भ्य उक्ष्णः प्रौक्षत् तान् इन्द्रायालभत ते वज्रम् आदायाभ्यपतंस् तान् वा एतेनाशमयत् तञ् शमयत्य् एवैतेन सप्तकपालो भवति सप्त हि मरुतो विञ् मरुतः स्वेनैवैनान् भागधेयेन शमयति ॥म्स्_२,१।८॥
ऐन्द्रम् एकादशकपालं निर्वपेन् मारुतं सप्तकपालं राजन्यं भूतिकामं याजयेद् ऐन्द्रो वै राजन्यो देवतया मारुती विड् इन्द्रियेनैवास्मै विशम् उपयुनक्त्य् अनुकाम् अस्मै विशम् अविवादिनीं करोत्य् ऐन्द्रम् एकादशकपालं निर्वपेन् मारुतं सप्तकपालं यः कामयेत विशे च क्षत्राय च समदं कुर्याम् इत्य् ऐन्द्रस्यैन्द्रीम् अनूच्य मारुत्या यजेन् मारुतस्य मारुतीम् अनूच्यैन्द्र्या यजेत् स्व एवैभ्यो भागधेये समदं करोति यदि कामयेतातुर्मुह्यं स्याद् इति पूर्वार्धे ऽन्यां जनताया गां निदध्याज् जघनार्धे ऽन्याम् अपि ते सङ्गछेते तावद् अतुर्मुह्यं भवति यदि कामयेत कल्पेतेत्य् एते एव हविषी निरुप्य यथायथं यजेत् कल्पते ऽहैन्द्रम् एकादशकपालं निर्वपेन् मारुतं सप्तकपालम् अभिचरन्न् उपरिष्टाद् ऐन्द्रस्यावद्येद् अधस्तान् मारुतस्योभयत एवैनान् आदीपयति ज्येष्ठतश् च कनिष्ठतश् चैन्द्रम् एकादशकपालं निर्वपेन् मारुतीम् आमिक्षां राजन्यं ग्रामकामं याजयेन् मध्य आमिक्षायाः पुरोडाशं निधायोभयस्यावद्येत् क्षत्रं वा इन्द्रो विण् मरुतो विशं वा एतन् मध्यतः प्रविशति पर्यूहम् अवद्यति विशैवैनं पर्यूहति मारुतम् एकविंशतिकपालं निर्वपेद् अभिचरन् देवविशा वै मरुतो न वै विशा प्रत्तं घ्नन्ति देवविश एवैनं निर्याच्य स्तृणुते तं बर्हिषदं कृत्वा समया स्फ्येन विहन्यात् ॥
इदम् अहम् अमुष्यामुष्यायणस्येन्द्रवज्रेण शिरश् छिनद्मि ॥ इतीन्द्रवज्रेनैवास्य शिरश् छिनत्त्य् अथ यत् स्फ्यो वज्रो वै स्फ्यो वज्रेणैवैनं स्तृणुते ॥
एना व्याघ्रं परिषस्वजानाः सिंहं मृजन्ति महते धनाय ।
महिषं नः सुभ्वं तस्थिवांसं मर्मृज्यन्ते द्वीपिनम् अप्स्व् अन्तः ॥