०७

आग्नावैष्णवम् एकादशकपालं निर्वपेद् अभिचरन्न् अभिचर्यमाणो वा सरस्वतीम् अप्य् आज्यस्य यजेद् अग्निर् वै सर्वा देवता देवताभिर् एवास्य देवताः प्रतिचरति विष्णुर् यज्ञो यज्ञेन यज्ञं वाक् सरस्वती वाचा वाचं तद् अभिचर्याभिप्रायुक्ताथो प्रतिचर्यात्य् एव प्रायुक्ताग्नावैष्णवं घृते चरुं निर्वपेच् चक्षुष्कामो ऽग्निर् वै मनुष्याणां चक्षुषः प्रदाता विष्णुर् देवानाम् एतौ वै चक्षुषः प्रदातारौ ता एव भागधेयेनोपासरत् ता अस्मै चक्षुः प्रयछतो धेन्वा वै घृतं पयो ऽनडुहस् तण्डुलास् तन् मिथुनं मिथुनं चक्षुर् मिथुनेनैवास्मै मिथुनं चक्षुर् जनयतः पयो वै घृतं पयश् चक्षुः पयसैवास्मै पयश् चक्षुर् जनयतस् तेजो वै घृतं तेजश् चक्षुस् तेजसैवास्मै तेजश् चक्षुर् जनयतो हिरण्यं ददात्य् आयुर् वै हिरण्यम् आयुश् चक्षुर् आयुषैवास्मा आयुश् चक्षुर् दधाति शतमानं भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोत्य् आग्नावैष्णवम् एकादशकपालं निर्वपेद् अभिचर्यमाणो ऽग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चास्तृत्यै मध्यतः प्रविशत्य् आग्नावैष्णवम् एकादशकपालं निर्वपेत् सङ्ग्रामे सरस्वतीम् अप्य् आज्यस्य यजेद् अग्निर् वै सर्वा देवता देवताभिर् एवास्य देवताः प्रणुदते विष्णुर् यज्ञो यज्ञेन यज्ञं वाक् सरस्वती वाचा वाचं यदि मन्येत प्रति पुरस्ताच् चरन्तीति द्वे पुरोनुवाक्ये कुर्याद् एकां याज्यां समम् एव द्वाभ्यां क्रियते ऽत्य् एकया प्रयुङ्क्त आग्नावैष्णवं प्रातर् अष्टाकपालं निर्वपेत् सारस्वतं चरुं बार्हस्पत्यं चरुम् आग्नावैष्णवम् एकादशकपालं मध्यन्दिने सारस्वतं चरुं बार्हस्पत्यं चरुम् आग्नावैष्णवं द्वादशकपालम् अपराह्णे सारस्वतं चरुं बार्हस्पत्यं चरुं यस्य भ्रातृव्यः सोमेन यजेताग्निर् वै सर्वा देवता देवताभिर् एवास्य देवता आप्नोति विष्णुर् यज्ञो यज्ञेन यज्ञं वाक् सरस्वती वाचा वाचं ब्रह्म बृहस्पतिर् ब्रह्मणैवास्य ब्रह्माप्नोति कपालैश् छन्दांसि पुरोडाशैः सवनानि मैत्रावरुणम् एककपालं निर्वपेत् पयस्यां वानूबन्ध्याम् एवैतेनाप्नोति सैषाध्वरकल्पेष्टिर् यज्ञम् एवैतयाप्नोति ॥म्स्_२,१।७॥