०६

सौमारौद्रं चरुं निर्वपेत् कृष्णानां व्रीहीणाम् अभिचरन् सौमीर् वा ओषधयस् तत एनं निर्याच्य रुद्रायास्य पशून् अपिदधाति कृष्णा व्रीहयो भवन्ति तमो वै कृष्णं मृत्युस् तमो मृत्युनैवैनं ग्राहयति शरमयं बर्हिर् भवति वैभीदक इध्मः शृणाद् इति शरमयं बर्हिर् भवति विभत्त्यै वैभीदक इध्मः सौमारौद्रं चरुं निर्वपेद् उदश्वित्य् अविचितानां व्रीहीणां यः कामयेत द्वितीयम् अस्य लोके जनेयम् इति सौमीर् वा इमाः प्रजा द्वितीयम् एवास्य लोके जनयति नेमं शरमयं बर्हिर् भवति नेमम् अशरमयं नेमो वैभीदक इध्मो नेमो ऽवैभीदको द्वितीयम् एवास्य लोके जनयति सौमारौद्रीम् आमिक्षां निर्वपेद् आमयाविनं याजयेद् आग्नेयो वै प्रमीतः सौम्यो जीवन्न् उभयत एवैनं निःक्रीणाति पयो वै पुरुषः पय एतस्यामयति पयसैवास्य पयो निःक्रीणात्य् अपिनद्धाक्षो होता स्यात् तम् अरण्यं पराणीय विक्शापयेत् तस्मा अनड्वाहं दद्यात् तं घ्नीत तस्याश्नीयाद् यत् तस्य नाश्नीयात् प्रमीयेत ॥म्स्_२,१।६॥