सौमारौद्रं घृते चरुं निर्वपेञ् शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तं सोमारुद्रा अभिषज्यतां तस्य वा एतेनैव शमलम् अपाहताम् एतेनास्मिंस् तेजो ऽधत्तां यो ब्रह्मवर्चसकामः स्यात् तम् एतया याजयेच् छमलम् एवास्यापहन्ति तेजो ऽस्मिन् दधातीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तावद् अस्मिंस् तेजो दधाति शुक्ला व्रीहयो भवन्ति श्वेता गा आज्याय दुहन्ति तेज एवैतत् सम्भ्रियते घृतं प्रोक्षणं भवति घृतेन मार्जयन्ते घृते भवति भूय एवासिम्ंस् तेजो दधाति यस्या रात्र्याः प्रातर् यक्ष्यमाणः स्यान् नास्य तां रात्रीम् अपो गृहान् प्रहरेयुर् आपो वै शान्तिः शमयेयुर् एव परिश्रिते याजयन्ति तेजसः परिगृहीत्यै साकं रश्मिभिः प्रचरन्ति साकम् एवास्य रस्मिभिः शमलम् अपघ्नन्ति तिष्यापूर्णमासे याजयेत् सोमो वै चन्द्रमा रुद्रस् तिष्यः सम्प्रत्य् एवैना उपासरत् प्राचीनं वै सौमीर् ओषधयः प्रतीचीनं रौद्रीर् न हि प्राचीनं शुष्यन्ति शुष्यन्ति प्रतीचीनं मनोर् ऋचो भवन्ति मनुर् वै यत् किञ्चावदत् तद् भेषजम् एवावदत् तद् भेषजत्वायैवैताः शक्वरीर् भवन्ति शक्त्यै नाराशंसीर् भवन्ति शान्त्यै किलासत्वाद् वा एतस्य भयम् अति ह्य् अपहन्ति सौमापौष्णं चरुं निर्वपेन् नेमपिष्टं पशुकामः सौम्यो वै ब्राह्मणो देवतया पशवः पूषा स्वां वा एतद् देवतां पशुभिर् बंहयते त्वचम् एवाकृत ॥म्स्_२,१।५॥
अति : फ़्न् एमेन्देद्। एद्।: अति