०४

अग्नीषोमीयम् एकादशकपालं निर्वपेद् ब्राह्मणः कामायाग्नीषोमीयो वै ब्राह्मणो देवतया स्वाम् एव देवतां कामाय भागधेयेनोपासरत् ता अस्मै कामं समर्धयतो यत्कामो भवत्य् अग्नीषोमीयम् एकादशकपालं निर्वपेद् ब्राह्मणं भूतिकामं याजयेद् देवा वै सत्रम् आसत कुरुक्षेत्रे ऽग्निः सोमा इन्द्रस् ते ऽब्रुवन् यतमं नः प्रथमं यस ऋछात् तं नः सहेति तेषां वै सोमं यश आर्छत् तम् अभिसमगछन्त तस्मात् सोमम् अभिसङ्गछन्ते स हि यशस्वितमस् तद् वै सोमो न्यकामयत स गिरिम् अगछत् तम् अग्निर् अन्वगछत् तौ गिरा अग्नीषोमौ समभवतां तस्मात् सददि गिरा अग्निर् दहति गिरौ सोमः स वा इन्द्रः शिथिर इवामन्यत सो ऽग्नीषोमा अन्वगछत् ता अब्रवीद् याजयतं मेति तं वा एतयाग्नीषोमा अयाजयतां तस्मिंस् तेजो ऽग्निर् अदधाद् इन्द्रियं सोमस् तता इन्द्रो ऽभवद् यो भूतिकामः स्यात् तम् एतया याजयेत् तेज एवास्मिन्न् अग्निर् दधातीन्द्रियं सोमो भवत्य् एवाग्नीषोमीयम् एकादशकपालं निर्वपेञ् श्यामाकं वसन्ता ब्रह्मवर्चसकामो ऽग्नीषोमौ वै ब्रह्मवर्चसस्य प्रदातारौ ता एव भागधेयेनोपासरत् ता अस्मै ब्रह्मवर्चसं प्रयछतस् वसन्ता यजेत वसन्तो वै ब्राह्मणस्य ऋतुः स्व एवास्मा ऋतौ ब्रह्मवर्चसं प्रयछतो यत् पुरोडाशस् तेनाग्नेयो यञ् श्यामाकस् तेन सौम्यः सर्वम् एवाग्नीषोमाभ्यां हव्यं सम्प्रादात् ता अस्मै सर्वं ब्रह्मवर्चसं प्रयछतः सौमाग्नी संयाज्ये स्यातां तेजो वा अग्निर् इन्द्रियं सोमस् तेजसा च वावास्मा एतद् इन्द्रियेण चोभयतो ब्रह्मवर्चसं परिगृह्णाति सौमापौष्णं चरुं निर्वपेन् नेमपिष्टं पशुकामः सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयति सौमेन्द्रं चरुं निर्वपेत् पुरोधाकामः सौम्यो वै ब्राह्मणो देवतयैन्द्रो राजन्यो ऽनपदोष्यं खलु वै सोमः प्रयछति तम् एव भागधेयेनोपासरत् सो ऽस्मा अनपदोष्यं राष्ट्रं प्रयछत्य् आग्निवारुणं चरुं निर्वपेत् समान्तम् अभिद्रुह्यामयावी वानृतं वा एष करोति यः समान्तम् अभिद्रुह्यति देवता वा एष आरद्यो ऽनृतं करोत्य् अग्निर् वै सर्वा देवता अत्र वै सापि देवता याम् आरत् तत एनं मुञ्चति यद् वारुणो वरुणाद् एवैनं तेन मुञ्चति तत् काजवं वा एतत् क्रियते सर्वस्यावेष्टिः सर्वस्य प्रायश्चित्तिः ॥म्स्_२,१।४॥