अग्नये जातवेदसे ऽष्टाकपालं निर्वपेद् दधिक्राव्णा एकादशकपालम् अग्नये वैश्वानराय द्वादशकपालं यः सर्ववेदसी प्रथमाम् इष्टिम् आलभेताग्निर् वा एतस्य तद् वेद यत्रास्येष्टं यत्र सुकृतम् अग्निर् एवास्मै तद् विन्दत्य् अमेध्यो वा एष यः सर्वं ददाति तद् दधिक्रावैवैनं मेध्यं करोति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरो वा एतस्य तद् वेद यत्रास्येष्टं यत्र सुकृतं संवत्सर एवास्मै तद् विन्दत्य् अग्नये सुरभिमते ऽष्टाकपालं निर्वपेद् अभिशस्यमानं याजयेद् रथप्रोतं वै दार्भ्यम् अभ्यशंसंस् तं कौलकावती अब्रूतां तथा त्वा याजयिष्यावो यथा ते ऽन्नम् अत्स्यन्ति यत्र ग्राम्यस्य पशोर् नोपशृणवस् तद् गछ यस् त्वा कश् चोपायत् तूष्णीम् एवास्वेति तं ह स्म वै व्याघ्रा उपघ्रायं तूष्णीम् एवापक्रामन्ति तौ वै तत्रैव श्वो भूते यज्ञायुधैर् अन्वेत्याग्निं मथित्वाग्नये सुरभिमते ऽष्टाकपालं निरवपतां ततो वा एनं न पर्यवृञ्जन् यम् अभिशंसेयुस् तम् एतया याजयेद् दुरभि वा एतम् आरद्यम् अभिशंसन्त्य् एषा वा अग्नेर् भेषजा तनूर् यत् सुरभिर् भेषजम् एवास्मा अकः सुरभिम् एनम् अकः शमयत्य् एवाग्नये पवमानायाष्टाकपालं निर्वपेद् दधिक्राव्णा एकादशकपालम् अग्नये वैश्वानराय द्वादशकपालं पुनर् एत्य गृहेषु पवमान एवैनं पुनात्य् अग्निर् निष्टपत्य् अपूतो वा एष यम् अभिशंसन्ति नैनं दधिक्रावा चन पावयाङ्क्रियाद् इति खलु वा आहुस् तद् दधिक्रावैवैनं पावयति संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं स्वदयत्य् आग्नेयम् अष्टाकपालं निर्वपेद् अग्नीषोमीयम् एकादशकपालं द्यावापृथिवीयं द्विकपालं यः सङ्ग्रामं जिगीषेन् नृज्यायं वा जिज्यासेद् ऋद्ध्या एवाग्नेयो ऽग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् वृत्रं खलु वा एष हन्ति यः सङ्ग्रामं जयति नृज्यायं वा जिनाति तद् वार्त्रघ्नम् एवैतद् इन्द्रो वै वृत्राय वज्रम् उदयछत् तं द्यावापृथिवी नान्वमन्येतां तम् एतेन भागधेयेनान्वमन्येतां यद् द्यावापृथिवीयो वज्रस्यानुमत्यय् अथो अनुमतवज्रो ऽसद् इति स यदा सङ्ग्रामं जयेन् नृज्यायं वा जिनीयाद् अथाग्नेयम् अष्टाकपालं निर्वपेद् ऐन्द्राग्नम् एकादशकपालं द्यावापृथिवीयं द्विकपालम् ऋद्ध्या एवाग्नेयो ऽग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् स ओजसा वीर्येण व्यार्ध्यत स एतम् ऐन्द्राग्नम् अपश्यत् तेनौजो वीर्यम् आत्मन्न् अधत्तौजसा वा एष वीर्येण व्यृध्यते यः सङ्ग्रामं जयति नृज्यायं वा जिनात्य् ओजो वीर्यम् इन्द्राग्नी ओजसैवैनं वीर्येण समर्धयतो ऽथ यद् द्यावापृथिवीयो ये एवास्मै वज्रम् अन्वमंसातां ताभ्याम् एष भागः क्रियते ॥म्स्_२,१।३॥