अग्नये वैश्वानराय द्वादशकपालं निवर्पेत् कामाय संवत्सरो वा अग्निर् वैश्वानरः संवत्सरो काम आप्यते संवत्सरम् एवापत् सो ऽस्मै कामम् आप्नोति यत्कामो भवत्य् अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् समान्तम् अभिध्रोक्ष्यन् संवत्सरो वा अग्निर् वैश्वानरः संवत्सराय समम्यते संवत्सरम् एवाप्त्वा वरुणं कामम् अभिद्रुह्यत्य् अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सनिं प्रैश्यन् संवत्सरो वा अग्निर् वैश्वानरः संवत्सराय प्रतिगृह्यते संवत्सरम् एवाप्त्वा सातां सनिं वनुते स यदा वन्वीताथाग्नये वैश्वानराय द्वादशकपालं निर्वपेत् संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एष प्रयुङ्क्ते संवत्सर एतस्मै वनुते तम् एव भागिनम् अकस् तं व्यमौग् यं द्विश्यात् तस्मै दक्शिणां दद्यात् पाशेन वा एश चरति तम् एवास्मिन् प्रतिमुञ्चत्य् एकहायनो गौर् दक्षिणा स हि संवत्सरस्य प्रतिमाग्नये वैश्वानराय द्वादशकपालं निर्वपेद् अनन्नम् अत्स्यन् संवत्सरो वा अग्निर् वैश्वानरः संवत्सरायैवैनद् अप्यधात् स यदानन्नम् अद्याद् अथाग्नये वैशवानराय द्वादशकपालं निर्वपेद् यद् एवादो ऽनन्नम् अत्ति तद् अस्मै संवत्सरः स्वदयति स्वदितम् एवात्ति सीसं दक्षिणा कृष्णं वा वासो ऽनन्नं वै सीसम् अनन्नं कृष्णम् अनन्नेनैवानन्नम् अपहत्यान्नाद्यम् आत्मन् धत्ते ऽग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सङ्ग्रामम् अभिप्रयान् संवत्सरो वा अग्निर् वैश्वानरः संवत्सरेणैवैनम् अभिप्रयात्य् अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सङ्ग्रामं संयत्य यतरो वै सङ्गृभाणयोर् आयतनवत्तरो भवति स जयतीयं वा अग्निर् वैश्वानर इमाम् एवायतनम् अकृतास्यां पराक्रंस्त जयति सङ्ग्रामं स यदा सङ्ग्रामं जयेद् अथाग्नये वैश्वानराय द्वादशकपालं निर्वपेत् संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एष प्रयुङ्क्ते संवत्सर एतस्मै जयति तम् एव भागिनम् अकस् तं व्यमौग् अग्नये वैश्वानराय द्वादशकपालं निर्वपेद् यः कामयेतानेन राजेमान् यवान् व्रीहीन् व् आदधीयेति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरो ऽन्नाद्यस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मा अन्नाद्यं प्रयछत्य् अग्नये वैश्वानराय द्वादशकपालं निर्वपेद् वारुणं यवमयम् चरुम् आमयाविनं याजयेद् वरुणगृहीतो वा एष य आमयावी वरुणाद् एवैनं तेन मुञ्चत्य् असौ वा आदित्यो ऽग्निर् वैश्वानरो ऽमुना वा एनम् एतं निगृहीतं वरुणो गृह्णाति तत एनं मुक्त्वा यावान् एवास्यात्मा तं वरुणान् मुञ्चति वारुणं चरुं निर्वपेद् यवमयम् इयन्तम् अग्नये वैश्वानराय द्वादशकपालं भूतिकामं याजयेद् वरुणगृहीतो वा एष यो भूतिकामो वरुणाद् एवैनं तेन मुञ्चतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणात् मुक्त्वासौ वा आदित्यो ऽग्निर् वैश्वानरो ऽमुम् एनम् अन्वारम्भयत्य् अमुष्यैनम् आदित्यस्य मात्रां गमयति ॥म्स्_२,१।२॥
इयन्तम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।