१०

अग्निर् एकाक्षराम् उदजयद् अश्विनौ द्व्यक्षरां विष्णुस् त्र्यक्षरां सोमश् चतुरक्षरां सविता पञ्चाक्षरां पूषा षडक्षरां मरुतः सप्ताक्षरां बृहस्पतिर् अष्टाक्षरां मित्रो नवाक्षरां वरुणो दशाक्षराम् इन्द्रा एकादशाक्षरां विश्वे देवा द्वादशाक्षरां वसवस् त्रयोदशाक्षरां रुद्राश् चतुर्दशाक्षराम् आदित्याः पञ्चदशाक्षराम् अदितिः षोडशाक्षरां प्रजापतिः सप्तदशो ऽग्निर् एकाक्षरया वाचम् उदजयद् अश्विनौ द्व्यक्षरया प्राणापाना उदजयतां विष्णुस् त्र्यक्षरया त्रीण् इमांल् लोकान् उदजयत् सोमश् चतुरक्षरया चतुष्यदः पशून् उदजयत् सविता पञ्चाक्षरया पञ्च दिशा उदजयत् पूषा षडक्षरया षड् ऋतून् उदजयन् मरुतः सप्ताक्षरया सप्तपदां शक्वरीम् उदजयन् बृहस्पतिर् अष्टाक्षरयाष्टौ दिशा उदजयच् चतस्रो दिशस् चतस्रो ऽकुशलीर् मित्रो नवाक्षरया नव प्राणान् उदजयद् वरुणो दशाक्षरया विराजम् उदजयद् इन्द्रा एकादशाक्षरया त्रिष्टुभम् उदजयद् विश्वे देवा द्वादशाक्षरया जगतीम् उदजयन् वसवस् त्रयोदशाक्षरया त्रयोदशं मासम् उदजयन् रुद्राश् चतुर्दशाक्षरया चतुर्दशं मासम् उदजयन्न् आदित्याः पञ्चदशाक्षरया पञ्चदशं मासम् उदजयन्न् अदितिः षोडशाक्षरया षोडशं मासम् उदजयत् प्रजापतिः सप्तदशो ऽग्निर् एकाक्षरयोदजयन् माम् इमां पृथिवीम् अश्विनौ द्व्यक्षरया प्रमाम् अन्तरिक्षं विष्णुस् त्र्यक्षरया प्रतिमां स्वर्गं लोकं सोमश् चतुरक्षरयाश्रीवीर् नक्षत्राणि सविता पञ्चाक्षरयाक्षरपङ्क्तिम् उदजयद् या ह्य् अक्षरपङ्क्तिः सा पङ्क्तिश् चतुर्धा ह्य् एतस्याः पञ्च पञ्चाक्षराणि पूषा षडक्षरया गायत्रीम् उदजयच् चतुर्धा ह्य् एतस्याः षट् षडक्षराणि मरुतः सप्ताक्षरयोष्णिहम् उदजयंश् चतुर्धा ह्य् एतस्याः स्प्त सप्ताक्षराणि बृहस्पतिर् अष्टाक्षरयानुष्टुभम् उदजयच् चतुर्धा ह्य् एतस्या अष्टाष्टा अक्षराणि मित्रो नवाक्षरया बृहतीम् उदजयच् चतुर्धा ह्य् एतस्या नव नवाक्षराणि वरुणो दशाक्षरया विराजम् उदजयच् चतुर्धा ह्य् एतस्या दश दशाक्षराणीन्द्रा एकादशाक्षरया त्रिष्टुभम् उदजयच् चतुर्धा ह्य् एतस्य एकादशैकादशाक्षराणि विश्वे देवा द्वादशाक्षरया जगतीम् उदजयंश् चतुर्धा ह्य् एतस्या द्वादश द्वादशाक्षराणि वसवस् त्रयोदशाक्षरया त्रयोदशं मासम् उदजयन् रुद्राश् चतुर्दशाक्षरया चतुर्दशं मासम् उदजयन्न् आदित्याः पञ्चदशाक्षरया पञ्चदशं मासम् उदजयन्न् अदितिः षोडशाक्षरया षोडशं मासम् उदजयत् प्रजापतिः सप्तदशो ऽग्नया एकाक्षरया छन्दसे स्वाहाश्विभ्यां द्व्यक्षराय छन्दसे स्वाहा विष्णवे त्र्यक्षराय छन्दसे स्वाहा सोमाय चतुरक्षराय छन्दसे स्वाहा सवित्रे पञ्चाक्षराय छन्दसे स्वाहा पूष्णे षडक्षराय छन्दसे स्वाहा मरुद्भ्यः सप्ताक्षराय छन्दसे स्वाहा बृहस्पतये ऽष्टाक्षराय छन्दसे स्वाहा मित्राय नवाक्षराय छन्दसे स्वाहा वरुणाय दशाक्षराय छन्दसे स्वाहेन्द्रायैकादशाक्षराय छन्दसे स्वाहा विश्वेभ्यो देवेभ्यो द्वादशाक्षराय छन्दसे स्वाहा वसुभ्यस् त्रयोदशाक्षराय छन्दसे स्वाहा रुद्रेभ्यश् चतुर्दशाक्षराय छन्दसे स्वाहादित्येभ्यः पञ्चदशाक्षराय छन्दसे स्वाहादित्यै षोडशाक्षराय छन्दसे स्वाहा प्रजापतिः सप्तदशः ॥म्स्_१,११।१०॥
अष्टाष्टा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।