०९

अथैते ऽतिग्राह्या यद् एवादः परमन्नाद्यम् अनवरुद्धं तस्यैते ऽवरुद्ध्यै गृह्यन्ते ऽथैते पशवा आलभ्यन्ते यज्ञक्रतूनाम् अवरुद्ध्यै यद् आगेयो ऽग्निष्टोमं तेनावरुन्द्धे यद् ऐन्द्राग्न उक्थ्यं तेन यद् ऐन्द्रो वृष्णिः षोडशिनं तेन यत् सारस्वती मेषी यद् एवादः सप्तदशं स्तोत्रम् अनाप्तम् अनवरुद्धं तद् एवैतयाप्नोति तद् अवरुन्द्धे ऽथैषा वशा देवाश् च वा असुराश् चास्पर्धन्त नेमे देवा आसन् नेमे ऽसुरास् ते देवा एतां वशाम् अपश्यंस् तया लोकं द्वितीयम् अवृञ्जतासुरलोकं यस्यावद्यति स देवलोको यस्य नावद्यति सो ऽसुरलोकस् तं लोकम् एवैतया द्वितीयं यजमानो वृङ्क्ते भ्रातृव्यलोकम् एव सारस्वत्य् अन्येषाम् उत्तमा भवति सारस्वत्य् अन्येषां प्रतहमा वाग् वै सरस्वती वाचा यज्ञः सन्ततो वाचैव यज्ञं सन्तनोति यद् वै यज्ञस्य विद्वान् न करोति यच् चाविद्वान् अन्तरेति तच् छिद्रं तद् वाचैव सरस्वत्या कल्पयत्य् अनिरुक्तः प्रातःसवः प्रजापतिम् एव तेनाप्नोति वियोनिर् वै वाजपेयः प्राजापत्यः सन् निरुक्तसामा यद् अनिरुक्तः प्रातःसवस् तेन सयोनि रथन्तरं साम भवत्य् आशीया उज्जित्यय् अथो इयं वै रथन्तरम् अस्याम् एव सूयते वाजवतीर् माध्यन्दिने पवमाने भवन्त्य् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यै चित्रवतीर् आर्भवे पवमाने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै शिपिविष्टवतीषु स्तुवत एषा वै प्रजापतेः पशुष्ठास् तनूर् यञ् शिपिविष्टं तस्माञ् शिपिविष्टवतीषु स्तुवत आष्टादंष्ट्रम् उत्तमम् उक्थानां भवत्य् उत्तरे एव स्तोत्रे अभिसन्तनोति यद् वै यज्ञस्यातिरिच्यते ऽमुं तं लोकम् अभ्यतिरिच्यते बृहत् त्व् एवामुं लोकम् आप्तुम् अर्हतीन्द्रियं वै वीर्यं बृहद् यद् बृहता स्तुवते इन्द्रिये वा एतद् वीर्ये ततो यज्ञस्य यजमानः प्रतितिष्ठति ॥म्स्_१,११।९॥
सन् : फ़्न् एमेन्देद्। एद्।: स। च्फ़्। क्स्।१४।१०:२०९।१
स्तुवते : फ़्न् सिच्