०८

स्वो रोहावेहि स्वो रोहावेहि स्वो रोहावेति स्वर् वा एतद् रोक्ष्यन् पत्न्या संवदते ऽथो अन्वारम्भो वा एष यज्ञस्य पत्न्या सह स्वर्गे लोके भवत आयुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पता इत्य् एतावान् वै पुरुषो यावान् एव पुरुषस् तम् आप्नोति स सर्वो भूत्वा स्वर्गं लोकम् एति दर्भमयं वासो भवति पवित्रत्वाय गौधूमं चषालं प्राजापत्या वै गोधूमा अर्धं प्रत्य् आसाम् ओषधीनां सहैवान्नाद्येनामुं लोकम् एति वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदश वा एता आहुतयस् त्रयोदश मासाः संवतसरः संवत्सरं वावास्मा एतद् उपदधाति स्वर्गे लोके तस्मिन्न् एव प्रतितिष्ठत्य् अन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेत्य् ऊषपुटैर् अर्पयन्ति प्राजापत्या वा ऊषाः श्वःश्वो भूयांसो भवन्त्य् अन्नाद्येनैवैनम् अर्पयन्त्य् एति वा एषो ऽस्माल् लोकाद् यो ऽमुं लोकम् एति यद् ऊषपुटैर् अर्पयन्ति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृतो हिरण्यम् अभ्यवरोहति तेजो वै हिरण्यं तेजस्य् एव प्रतितिष्ठति बस्ताजिनम् अभ्यवरोहति पशवो वै बस्ताजिनं पशुष्व् एव प्रतितिष्ठत्य् अन्नस्यान्नस्य जुहोति वाजप्रसव्याभिर् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यय् उभयं ग्राम्यं चारण्यं च जुहोत्य् उभयस्यान्नाद्यस्यावरुद्ध्यय् औदुम्बरेण स्रुवेण जुहोत्य् ऊर्ग् वा उदुम्बर ऊर्जो ऽवरुद्ध्यै सप्तभिर् जुहोति सप्त वै छन्दांसि छन्दोभिर् एवास्मा अन्नाद्यम् अवरुन्द्धे ऽथो वाग् वै छन्दांसि वाचैवास्मा अन्नाद्यं प्रयछति ॥म्स्_१,११।८॥
अथो : फ़्न् एमेन्देद्। एद्।: अथ