देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकं रुहेयम् इति ब्रह्मा रथचक्रं सर्पति सवितृप्रसूत एव वज्रं सर्पति वाजस्योज्जित्यय् अथो प्रजापतिर् वै ब्रह्मा यज्ञस्य प्रजापतिर् एवैनं वज्राद् अधि प्रसुवति वाजस्योज्जित्यै साम गायते सत्यं वै साम सत्येनैवोज्जयत्य् उज्जितिर् वाजयत्य् अन्नं वै वाजो ऽन्नाद्यस्योज्जित्यै देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर् वाजिनो वाजजितो वाजं जेष्मेति रथम् अभ्यातिष्ठति सवितृप्रसूत एव रथम् अभ्यातिष्ठति वाजस्योज्जित्यै वाजिनाम् ऋचो ऽन्वाह वाजस्योज्जित्यय् आजिं धावन्ति वाजस्योज्जित्यय् अनुदिष्टै रथैर् धावन्ति दक्षिणयैव स्वर्गं लोकम् एति यद् अनुदिष्टै रथैर् धावन्ति दक्षिणया वा एतद् यजमानः सह स्वर्गं लोकम् एत्य् अथैष नैवारः सप्तदशशरावो देवा ओषधीषु पक्वास्व् आजिम् अयुस् ता बृहस्पतिर् उदजयत् स एतान् निवारान् न्यवृणीत तन् निवाराणां निवारत्वं बृहस्पतिर् वै ता उदजयत् तम् एव भागिनं करोत्य् अहिंसायै तम् अधश् चात्वालं हरन्तीह वा असा आदित्य आसीत् तम् इतो ऽध्य् अमुं लोकम् अहरंस् तद् यतो ऽध्य् अमुं लोकम् अहरन् यच् चात्वाले ऽवदधति यजमानम् एव स्वर्गं लोकं हरन्त्य् आ मा वाजस्य प्रसवो जगम्याद् इति रथेषु पुनरासृतेषु जुहोति यम् एव वाजम् उदजैषुस् तम् आत्मन् धत्ते ऽजीजपत वनस्पतया इन्द्राय वाचं विमुच्यध्वम् इति रथविमोचनीयं जुहोति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागम् अवजिघ्रतम् इति भागिना एवैना अकर् वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागे निमृज्येथाम् इति सर्वान् एवैनान् प्रीणात्य् अर्धवशां च सुरोपयामांश् च हरन्ति य आजिं धावन्ति तेभ्यो यम् एव वाजम् उदजैषुस् तं परिक्रीणीते मधुष्ठालं ब्रह्मणे ब्रह्मण एव तेन परिक्रीणीते ककुभो राजपुत्रः प्राश्नाति वीर्यं वै ककुब् वीर्यम् एवात्मन् धत्ते ॥म्स्_१,११।७॥
वाजयति : फ़्न् क्स्।१४।७:२०६।१४: उज्जितीर् वाचयति