सप्तदश वा एते द्वया ग्रहाः प्राजापत्याः सप्तदशः पुरुषाः प्राजापत्यश् चत्वार्य् अङ्गानि शिरोग्रीवम् आत्मा वाक् सप्तमी दश प्राणा अङ्गेऽङ्गे वै पुरुषस्य पाप्मोपश्लिष्टो यद् व्यतिषजन् ग्रहान् गृह्णात्य् अङ्गादङ्गाद् एवैनं पाप्मनो मुञ्चति श्रीर् वै सोमः पाप्मा सुरोपयामा आगते काले प्राञ्चः सोमैर् उत्क्रामन्ति प्रत्यञ्चः सुरोपयामैः पापमनैवैनं विपुनन्ति तस्माद् आहुर् वाजपेययाज्य् एव पूत इति पापमना ह्य् एनं विपुनन्ति देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति परुषिपरुषि जुहोत्य् उत्सन्नयज्ञो वा एष को ह तद् वेद यद् एतस्य क्रियते यन् न सर्वत्वायैव प्रसवाय वाजस्य नु प्रसवे मातरं महीम् इति रथम् उपावहरतीयं वा अदितिर् अनयैवैनं प्रसूतं सवित्रा चोपावहरति वाजस्योज्जित्यय् अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् इत्य् अश्वान्त् स्नपयन्त्य् अप्सुजा वा अश्वाः स्वाद् एवैनान् योनेर् जनयन्ति वायुर् वा त्वा मनुर् वा त्वेति युनक्ति न वा एतन् मनुष्या योक्तुम् अर्हन्ति देवताभिर् एवैनान् युनक्त्य् अपां नपाद् आशुहेमन्न् इति रराटानि प्रतिमार्ष्टि पूर्वम् एव यजुर् उदितम् अनु वदति दुन्दुभीन् निह्रादयन्ति वाग् वा एषैकारण्यं प्राविशत् ताम् एवोज्जयत्य् अथो या वनस्पतिषु वाक् ताम् एवावरुन्द्धे सप्तदशः सर्वो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोत्य् उत्सन्नयज्ञो वा एष संवत्सराद् वा अध्य् उत्सन्नयज्ञो ऽवरुध्यते संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे ॥म्स्_१,११।६॥