देवा वै नाना यज्ञान् अपश्यन्न् अथ वा एतं सर्वे ऽपश्यंस् तस्मिन् वा अयतन्त तस्मिन्न् आजिम् अयुस् तं बृहस्पतिर् उदजयद् बृहस्पतिर् वै देवानां पुरोहितो यद् वै पुरोहितो ब्राह्मणं शृणोति तद् राज्ञे तेनेन्द्रम् अयाजयत् स स्वाराज्यम् अगच्छत् स एष स्वाराज्यो यज्ञः स्वाराज्यं गछति य एतेन यजते यद् बृहस्पतिर् उदजयत् तस्माद् ब्राह्मणो यजेत यद् इन्द्रम् अयाजयंस् तस्माद् राजन्यो देवा वै नाना यज्ञान् आहरन्न् इमम् अहम् इमं त्वम् इत्य् अथ वा एतं प्रजापतिर् आहरत् तस्मिन् वा अपित्वम् ऐछन्त तेभ्यश् छन्दांस्य् उज्जितीः प्रायछद् अथ वा एतेन प्रजापतिर् अयजत स स्वाराज्यम् अगछत् स एष स्वारज्यो यज्ञः स्वाराज्यम् गछति य एतेन यजते ऽन्नं वै वाजस् तद् य एवं विद्वान् अन्नम् अत्ति वाजयति ह वा एनम् अन्नम् अद्यमानं सोमो वै वाजपेयस् तद् य एवं विद्वान्त् सोमं पिबति वाजं ह गछति यावन्तो हि देवाः सोमम् अपिबंस् ते वाजम् अगछंस् तस्मात् सर्वः सोमं पिपासति वाजं ह गछति वाग् घि वाजस्य प्रसवः सा वै वाक् सृष्टा चतुर्धा व्यभवद् एषु लोकेषु त्रीणि तुरीयाणि पशुषु तुरीयं या पृथिव्यां साग्नौ सा रथन्तरे यान्तरिक्षे सा वाते सा वामदेव्ये या दिवि सा बृहति सा स्तनयित्नव् अथ पशुषु ततो या वाग् अत्यरिच्यत तां ब्राह्मणे न्य् अदधुस् तस्माद् ब्राह्मण उभयीं वाचं वदति यश् च वेद यश् च न या बृहद्रथन्तरयोर् यज्ञाद् एनं तयागछति या पशुषु तय ऋतेयज्ञं तद् य एवं वेदा ह वा एनम् अप्रतिक्शातं गछति यावती वाक् तां हि वेद वाचा हि दीयन्ते वाचा प्रदीयये यो गाथानाराशंसीभ्यां सनोति न तस्य प्रतिगृह्यम् अनृतेन हि स तत् सनोति न मत्तस्य यदा हि तस्य मदो व्येत्य् अथ तं तत् तपति ॥म्स्_१,११।५॥