०३

इन्द्राय वाचं वदतेन्द्राय वाचं संवदतेन्द्रं वाजं जापयतेन्द्र वाजं जयेयं वः सा सत्या संवाग् अभूद् याम् इन्द्रेण समदद्भ्वम् अजीजपत वनस्पतय इन्द्राय वाचं विमुच्यध्वं वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागम् अवजिघ्रतं वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागे निमृज्येथां स्वो रोहावेहि स्वो रोहावेहि स्वो रोहावायुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पते चक्षुर् यज्ञेन कल्पते श्रोत्रं यज्ञेन कल्पते मनो यज्ञेन कल्पते वाग् यज्ञेन कल्पते ब्रह्मा यज्ञेन कल्पते पृष्ठं यज्ञेन कल्पते स्वर् यज्ञेन कल्पते यज्ञो यज्ञेन कल्पते वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहाहर्पतये स्वाहा वाक्पतये स्वाहा वसवे स्वाहा स्वर् मूर्धा वैयशनो व्यश्यन्न् आन्त्यो ऽन्त्यो भौवनो भुवनस्य पतये ऽधिपतये स्वाहान्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा स्वर् देवा अगामामृता अभूम प्रजापतेः प्रजा अभूम ॥म्स्_१,११।३॥
वैयशनो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अग्ने अछा वदेह नः प्रत्यङ् नः सुमना भव ।
प्र नो यछ विशस्पते धनदा असि नस् त्वम् ॥

प्र नो यछत्व् अर्यमा प्र भगः प्र बृहस्पतिः ।
प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥

अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय ।
वाचं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥

सोमं राजानं वरुणम् अग्निम् अन्वारभामहे ।
आदित्यान् विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥

इन्द्रवायू सुसन्दृशा सुहवेह हवामहे ।
यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥

वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमं राजानम् ओषधीष्व् अप्सु ।
स विराजं पर्येतु प्रजानन् प्रजां पुष्टिं वर्धयमानो अस्मे ॥

वाजस्येमां प्रसवः शिश्रिये दिवं स ओषधीः समनक्तु घृतेन ।
ता अस्मभ्यं मधुमतीर् भवन्तु वयं राष्ट्रे जागृयामा पुरोहिताः वाजस्येदं प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः ।
अदित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नियछतु ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण बृहस्पतिं साम्राज्यायाभिषिञ्चामीन्द्रं साम्राज्यायाभिषिञ्चाम्य् उपयामगृहीतो ऽसि द्रुषदं त्वा नृषदम् आयुषदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽसि पृथिवीषदं त्वान्तरिक्षसदं नाकसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽस्य् अप्सुषदं त्वा घृतसदं भूतसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽसि ग्रह विश्वजनीन नियन्तर् विप्रायाम ते ॥

यास् तिस्रः प्रथमजा दिव्यः कोशः समुक्षितः ।
तासां विशिश्नानाम् इषम् ऊर्जं समग्रभम् ॥

इन्द्राय त्वा जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वोपयामगृहीतो ऽसि ॥

अपां रसम् उद्वयसं सूर्याञ् शुक्रं समाभृतम् ।
अपां रसस्य यो रसस् तं ते गृभ्णाम्य् उत्तमम् ॥

इन्द्राय त्वा जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ॥

कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुत भोजनानि ये बर्हिषा नमौक्तिं न जग्मुः ॥

उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ॥