देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर् वाजिनो वाजजितो वाजं जेष्म ॥म्स्_१,११।१॥
वाजं वाजिनो जयताध्वानं स्कभ्नुवन्तो योजना मिमानाः ॥
काष्ठां गछत ॥
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥
वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाता सनिष्यवो महो ये धना समिथेषु जभ्रिरे ॥
एष स्य वाजि क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिपक्ष आसन् ।
क्रतुं दधिक्राम् अनु संसनिष्यदत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ॥
उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः ।