२०

रुद्रैष ते भागस् तेनावसेन परो मूजवतो ऽतीहि पिनाकहस्तः कृत्तिवासा अवततधन्वा ॥ इति गिरिर् वै रुद्रस्य योनिर् अतो वा एषो ऽन्वभ्यवचारं प्रजाः शमायते स्वेनैवैनं भागधेयेन स्वं योनिं गमयत्य् अनपेक्षमाणा आयन्ति रुद्रस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव रुद्रं निरवदयन्ते ऽम्बी वै स्त्री भगनाम्नी तस्मात् त्र्यम्बका यस्य वै हविर् अप्रतिष्ठितम् अप्रतिष्ठितः सो ऽप्रतिष्ठिता अस्य त्र्यम्बका आदित्यं घृते चरुं निर्वपेत् पुनर् एत्य गृहेष्व् इयं वा अदितिर् इयं प्रतिष्ठा यद् आदित्यो ऽस्याम् एव प्रतितिष्ठति ॥म्स्_१,१०।२०॥

देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं पुनातु वाचस्पतिर् वाचम् अद्य स्वदातु नः ॥

वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।
विश्वं ह्य् अस्यां भुवनम् आविवेश तस्यां देवः सविता धर्मं साविषत् ॥

अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिषु ।
अश्वा भवत वाजिनः ॥

वायुर् वा त्वा मनुर् वा त्वा गन्धर्वाः सप्तविंशतिः ।
ते अग्रे अश्वम् अयुञ्जंस् ते अस्मिन् जवम् आदधुः ॥

अपां नपाद् आशुहेमन् य ऊर्मिः प्रतूर्तिः ककुभ्वान् वाजसाः ।
तेन वाजं सेषम् ॥

देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकं रुहेयम् ॥