अत्र पितरो मादयध्वम् इत्य् उक्त्वा परायन्ति त आहवनीयम् उपतिष्ठन्ते सुसन्दृशं त्वा वयम् इत्य् आ तमितोस् तिष्ठन्त्य् अग्निम् एवोपद्रष्टारं कृत्वान्तं प्राणस्य गछन्त्य् अमीमदन्त पितरा इत्य् उक्त्वा प्रपद्यन्ते त ऊर्णां दशां वा न्यस्यन्ति यद् एवात्र निगछन्ति तस्यैषा निरवत्तिः परेतन पितरः सोम्यासा इत्य् आहानुषक्ता वा एतान् पितरः स्युर् व्यावृत्त्यै समन्तम् अपः परिषिञ्चन् पर्येति मार्जनम् एवैषां तद् अपरिषिञ्चन् पुनः पर्येत्य् अमुं वा एते लोकं निगछन्ति ये पितृयज्ञेन चरन्ति प्रजापतिस् त्व् एवैनांस् तता उन्नेतुम् अर्हति यत् प्राजापत्याम् ऋचम् अन्वाह प्रजापतिर् एवैनांस् तता उन्नयत्य् अथ यद् अपरिषिञ्चन् पुनः पर्येत्य् अमुं वा एतं लोकं पुनर् उपावर्तन्ते पितॄन् वा एतद् यज्ञो ऽगन् पाङ्क्तो यज्ञो यत् पङ्क्त्या पुनर् आयन्ति सहैव यज्ञेनायन्ति मनस्वतीभिर् आयन्ति मन एव पुनर् उपह्वयन्ते ॥म्स्_१,१०।१९॥
एतद् वा अस्य संवत्सरो ऽभीष्टो ऽभूद् अभीष्टा ऋतवो ऽथ वा अस्य रुद्रा अनभीष्टा यद् एते त्र्यम्बकास् तेनैवास्य रुद्रा अभीष्टाः प्रीता भवन्त्य् एककपाला भवन्ति न वै पुरुषः कपालैर् आप्य एकधैवैनम् आप्नोत्य् अथो एका वा इयम् अस्याम् एव प्रतितिष्ठत्य् अभिघार्या३ नाभिघार्या३ इति मीमांसन्ते यद् अभिघारयेद् रुद्रायास्य पशून् अपिदध्यात् तन् न सूर्क्ष्यम् अभिघार्या एव न हि हविर् अनभिघृतम् अस्त्य् एकोल्मुकं हरन्त्य् एकोल्मुकं हि रुद्राणां धूपायद् धरन्ति धूपायद् धि रुद्राणाम् एतां दिशं हरन्त्य् एषा हि रुद्राणां दिक् पराचीनं हरन्ति पराञ्चम् एव रुद्रं हरन्त्य् आखुं ते रुद्र पशुं करोमीत्य् आखुकिरा एकम् उपवपति पशुभ्यस् तेन निरवदयते तस्मात् तान् पशुपतिर् घातुकश् चतुष्पथे याजयेच् चतुष्पथे वै रुद्राणां गृहा गृहेष्व् एव रुद्रं निरवदयत एष ते रुद्र भागस् तं जुषस्व सह स्वस्राम्बिकया स्वाहेति शरद् वै रुद्रस्य योनिः स्वसाम्बिकैतां वा एषो ऽन्वभ्यवचरति तस्माञ् शरदि भूयीष्ठं हन्ति तयैवैनं सह निरवदयते मध्यमपर्णेन जुहोति तद् ध्य् अरक्षोहतम् आरण्येन जुहोत्य् अरण्य एव रुद्रं निरवदयते यत् पात्रेण जुहुयाद् रुद्रं प्रजास्व् अन्ववनयेत् तस्माद् आरण्येन जुहोत्य् अवाम्ब रुद्रम् अदिमहीत्य् अनृणा एवाभूवन् भेषजं गवे अश्वाय पुरुषाय भेषजम् इत्य् अनृणा एव भूत्वा भेषजम् अक्रत त्र्यम्बकं यजामहा इति परियन्ति तत्रापि पतिकामा पर्येति पतिवेदनम् एवास्यास् तत् तान् ऊर्ध्वान् उदस्य प्रतिलभन्ते भगम् एव प्रतिलभन्ते तान् यजमानाय समावपन्ति भगम् एवास्मै समावपन्ति या पतिकामा स्यात् तस्यै समावपेयुर् भगम् एवास्यै समावपन्ति तान् मूते कृत्वा वृक्ष आसञ्चति ॥
अरक्षोहतम् : फ़्न् एमेन्देद्। एद्।: अरक्षोहतम्
एवाभूवन् : फ़्न् एमेन्देद्। एद्।: एवाभुवन्