१८

स्वधा नमः ॥ इति वषट्करोति स्वधाकारः पितृणां नमस्कारो देवानाम् उभये हीज्यन्ते स्रक्तिषु निदधाति देवान् वै पितॄन् मनुष्या अनुप्रपिबन्ते देवान् एव पितॄन् अयाट् त्रिर् निदधाति त्रीन् हीदं पुरुषान् अभिस्मस् त्रीन् परान् अन्वाचष्टे त्रयो हि परे पिता पुत्रः पौत्रो ऽनुसन्तत्यै सर्वासु स्रक्तिषु निदधाति सर्वासु हि दिक्षु पितरः सर्वा एवैनं दिशो गमयति नामुष्यां निदधाति यद् अमुष्यां निदध्यान् मृत्युनैनाः परिवेशयेत् ताम् एवानूद्यन्त्य् अथ यत् तस्यां निमार्ष्टि ताम् एव तेन प्रीणाति ॥म्स्_१,१०।१८॥
अभिस्मस् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।