प्रजाः सृष्ट्वांहो ऽवयज्य वृत्रं हत्वा ते देवा अमृतत्वम् एवाकामयन्त स्वर्गो वै लोको ऽमृतत्वं संवत्सरः स्वर्गो लोको यद् द्वादशाहुतयो ऽमृतत्वम् एव तेन स्पृणोत्य् आपद् वा एतत् संवत्सरम् अति वा एतत् संवत्सरम् अक्रमीद् यद् द्वादशाहुतयः संवत्सरम् एव पुनर् अभिपर्यावर्तत आपद् वा एतत् संवत्सरं सं वा एतत् संवत्सरम् अकृक्षद् यत् षट्षट् सम्पादयति षड् वा ऋतवस् तान् वा एतत् सम्पादयति तान् अपिपादयति तान् अपिपद्यमानान् अन्वपिपद्यत आपद् वा एतत् संवत्सरं पितरो वा ऋतवस् तान् वा एतत् प्रजनयति तान् प्रजायमानान् अनु प्रजायते ततः प्रजायत एतद् वा अस्य संवत्सरो ऽभीष्टो ऽभूद् अभीष्टा ऋतवो ऽथ वा अस्य पितरो ऽनभीष्टा यद् एष पितृयज्ञस् तेनैवास्य पितरो ऽभीष्टाः प्रीता भवन्ति दक्षिणतो निरुप्यं दक्षिणा हि पितृणाम् अथो आहुर् उभयत एव निरुप्यम् इत्य् उभये हीज्यन्ते तन् न सूर्क्ष्यं दक्षिणत एव निरुप्यं दक्षिणा हि पितृणां षट्कपालः पुरोडाशो भवति षड् वा ऋतवस् त एवास्यैतेनाभीष्टाः प्रीता भवन्ति न वै धानाभिर् न मन्थेन यज्ञो यद् एष पुरोडाशस् तेन यज्ञो ऽथैता धानाः स्वधा वा एता अमुष्मिंल् लोके ऽथो अपरिमिता वै संवत्सरस्य रात्रयस् ता एवास्यैताभिर् अभीष्टाः प्रीता भवन्ति न वै धानाभिर् न पुरोडाशेन पितृयज्ञो यद् एष मन्थस् तेन पितृयज्ञो ऽभिवान्याया गोर् दुग्धे स्यात् सा हि पितृणां नेदिष्ठं दक्षिणासीना उपमन्थति दक्षिणा हि पितृणाम् एकयोपमन्थत्य् एका हि पितृणाम् इक्षुशलाकयोपमन्थति सा हि पितृणां न प्राच्य् उद्धत्या पितृयज्ञो हि न दक्षिणा यज्ञो ह्य् उभे दिशा अन्तरोद्धन्त्य् उभये हीज्यन्त उपमूलं बर्हिर् दाति तेन पितृणां यद् ऋतेमूलं तेन देवानाम् उभये हीज्यन्ते परिश्रयन्त्य् अन्तर्हिता वा अमुष्माद् आदित्यात् पितरो ऽथो अन्तर्हिता हि देवेभ्यश् च मनुष्येभ्यश् च पितरस् तस्मात् परिश्रयन्ति समन्तं बर्हिः परिस्तृणाति समन्तं हीम ऋतवः परिविष्टा अथो समन्तान् मा पितरो ऽभिसमागछान् इत्य् अमुष्मिन् वै पूर्वस्मिन्न् इतरा देवता इज्यन्ते यत् तत्र जुहुयाद् आहुतीः संसृजेत् समदं कुर्याद् गार्हपत्ये शृतं कुर्वन्ति यज्ञतायय् ओदनपचनाद् अग्निम् आहरन्ति तत् स्विन् नान्यता आहरन्ति ॥म्स्_१,१०।१७॥
पितृयज्ञस् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
उशन्तस् त्वा हवामह उशन्तः समिधीमहि ।
उशन्न् उशत आवह पितॄन् हविषे अत्तवे ॥
इत्य् अन्वाहोशन्तो हि पितरो ऽनुष्टुभम् अन्वाहान्तो वा अनुष्टुब् अन्तः पितरस् तस्माद् अनुष्टुभम् अन्वाहैकाम् अन्वाहैकलोका हि पितरस् त्रिर् अन्वाह तृतीये हि लोके पितरो यद् एकाम् अन्वाह तेन पितृणां यत् त्रिस् तेन देवानाम् उभये हीज्यन्ते न होतारं वृणीते नार्षेयं मृत्योर् एवैना उत्सृजत्य् अपबर्हिषः प्रयाजान् यजति प्रजा वै बर्हिः प्रजा एव मृत्योर् उत्सृजति संव्ययते वै मनुष्येभ्यः करिष्यन् दक्षिणतो देवेभ्या उपव्ययते ऽथात्र प्राचीनावीतेन भव्यं व्यावृत्त्यै दक्षिणतो ऽवदायोदङ्ङ् अतिक्रम्य दक्षिणा तिष्ठन् जुहोति दक्षिणा हि प्तृणां सोमम् अग्रे यजति सोमो वै पितृणां देवता पितृदेवत्यः सोमो यत् सोमं पितृमन्तं यजति सोमपांस् तत् पित्πन् यजति यद् बर्हिषदो यज्वनस् तद् यद् अग्निष्वात्तान् गृहमेधिनस् तद् यद् अग्निं कव्यवाहनं द्वे वा अग्नेस् तन्वौ हव्यवाहन्या देवेभ्यो हव्यं वहति कव्यवाहन्या पितृभ्यः समिष्ट्या एव प्रतिष्ठित्यै द्वे वै देवानां याज्यानुवाक्ये प्राण्यया यछति गमयत्य् अन्ययाथात्र तिस्रः कार्याः परे हि देवेभ्यः पितरस् तद् यैषा तृतीयात्य् एवैतया प्रादात् पञ्च कृत्वो ऽवद्यति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध ॥
प्राचीनावीतेन : फ़्न् एमेन्देद्। एद्।: प्राचीनाववीतेन