१६

तेषां वा उभयेषाम् इन्द्रः प्रावसत् ते देवा एतम् इन्द्राय भागं न्यदधुर् अस्माञ् श्वो निहितभागो वृणता इत्य् ऋषभम् आह्वयन्तीन्द्रं वा एतं निह्वयन्ते रुवथो वषट्कारो ऽथो असुराणां वा एतद् ऋषभम् अत्याह्वयन्त्य् अस्मान् प्रजनयाद् इति सवत्सा गावो वसन्ति साकमेधत्वाय स्त्र्य् अश्नाति साकमेधत्वाय यत् स्त्री नाश्नीयाद् असाकमेधाः स्युर् अथ यत् स्त्र्य् अश्नाति साकमेधत्वाय निरृतिर् वा एतद् यज्ञस्य गृह्णाति यत् स्त्र्य् अश्नाति निरृतिर् हि स्त्री निरृतिगृहीता वै दर्विस् तप्तं ह्य् अवचरत्य् एष खलु वै स्त्रिया हस्तो यद् दर्विर् यद् दर्व्या जुहोति निरृतिगृहीतयैव निरृतिं निरवदयते स वै श्वो भूते वृत्रं हन्तुम् उपप्लायत तं मरुतः परिक्रीडन्त आसंस् ते ऽस्याप्त्वा व्यनयंस् ते ऽभ्यधर्षयंस् तस्मात् क्रीडयस् ते वै संयत्ता आसंस् ते देवा असुराणां परम् अन्तं न परापश्यंस् ते मरुतः क्रीडीन् क्रीडतो ऽपापश्यंस् तज् जितमनसो वा इम इति तेभ्यो वा एतं भागं निरवपंस् ततो वा अजयंस् तज् जित्वा एवैषो ऽसौ वा आदित्य इन्द्रो रश्मयः क्रीडयः साकं रश्मिभिः प्रचरति विजित्यै देवा वै वृत्रं हतं न व्यजानंस् तं मरुतः क्रीडयो ऽध्यक्रीडंस् तस्मात् क्रीडयो ऽथैतानि पञ्च हवींषि सन्तत्यय् अथैष ऐन्द्राग्न इन्द्राग्नी एवास्मै वज्रम् अन्वबिभृताम् इन्द्राग्नी अस्मै वज्रम् अभ्यवहताम् अथैष ऐन्द्र उद्धारं वा एतम् इन्द्रा उदहरत् वृत्रं हत्वा तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजते ऽथैष वैश्वकर्मणो विश्वानि मे कर्माणि कृतान्य् आसन्न् इति विश्वकर्मा हि सो ऽभवद् वृत्रं हत्वाथैष आघार आहुतीनां सन्तत्यै त्रिंशत्वाय ॥म्स्_१,१०।१६॥
क्रीडतो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।