ते वै श्वो भूते वृत्रं हनिष्यन्ता उपावसंस् ते ऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति त एतम् ओदनम् अपचंस् तेन पशून् अचिकयुस् ते ऽविदुर् यतरान् वा इम उपावर्त्स्यन्ति त इदं भविष्यन्तीति तेभ्यो वा एतेन प्रातिष्ठंस् तान् एतेनायछंस् तत् पशूनां वावैषा यतिस् ते वै श्वोविजयिनो ऽवसंस् ते ऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति त एतम् ओदनम् अपचंस् ते ऽब्रुवन् माहुतम् अशिष्मेति तं मरुद्भ्यो गृहमेधेभ्यो ऽजुहवुः पशवो वै मरुतो गृहमेधाः पशुभ्यो वै ते तम् अजुहवुस् ते वै संयत्ता आसंस् ते ऽसुरा देवेभ्यः क्षुधं प्राहिण्वंस् तां देवाः प्रतिश्रुत्यैतम् ओदनम् अपचन् सा देवेषु लोकम् अवित्त्वा पुनर् असुरान् प्राविशत् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतम् ओदनं पचति भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् अपि प्रतिवेशं पचेद् भ्रातृव्यायैव क्षुधं प्रहिणोति यद् वै चातुर्मास्यानां पाकयज्ञस्यैव तद् एषां पशव्यं पशव्यो गृहमेधो न प्रयाजान् यजति नानुयाजान् न सामिधेनीर् अन्वाहाज्यभागौ यजति यज्ञतायय् अग्नये समवद्यत्य् अग्निर् वै समिष्टिर् अग्निः प्रतिष्ठितिः समिष्ट्या एव प्रतिष्ठियईडाम् उपह्वयन्ते पशवो वा इडा पशव्यो गृहमेधस् तस्माद् इडाम् उपह्वयन्ते निष्काषं निदधात्य् अनुसन्तत्यै ॥म्स्_१,१०।१५॥
ते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अवित्त्वा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।