१४

प्रजाः सृष्ट्वांहो ऽवयज्य सो ऽकामयत वृत्रं हन्याम् इति स एताभिर् देवताभिः सयुग् भूत्वा मरुद्भिर् विशाग्निनानीकेनोपप्लायत स वृत्रम् एत्य वृत्रं दृष्ट्वोरुस्कम्भगृहीतो ऽनभिधृष्णुवन्न् अतिष्ठत् तं मरुतो ऽध्यैयन्त ते ऽत्यैषंस् तस्य यदा मर्मागछन्न् अथाचेष्टत् सं वा एनं तद् अतपंस् तस्मात् सान्तपनास् अग्निना वा अनीकेनेन्द्रो वृत्रम् अहंस् तद् अनीकत्वायैवैषो ऽथो अग्निर् वै देवानां सेनानीस् तत् सेनोत्थापनीयम् एवैतद् इन्द्रो वै वृत्राय वज्रम् उद्यमं नाशक्नोत् स एतं मरुद्भ्यो भागं निरवपत् तं वीर्याय समतपंस् तं तेन वीर्येणोदयछन् सं वा एनं तद् अतपंस् तस्मात् सान्तपना मध्यन्दिने चरुर् निरुप्यस् तर्ह्य् उभा अन्तौ तपति चरुः स्यात् तं हि सर्वतस् तपति देवा वै वृत्रस्य मर्म नाविन्दन् तं मरुतः क्षुरपविना व्ययुः सं वा एनं तद् अतपंस् तस्मात् सान्तपनाः ॥म्स्_१,१०।१४॥
सेनोत्थापनीयम् : फ़्न् एमेन्देद्। एद्।: सेनोत्थापनीयम्