प्रजापतेर् वा एतज् ज्येष्ठं तोकं यत् पर्वतास् ते पक्षिण आसंस् ते परापातम् आसत यत्रयत्राकामयन्ताथ वा इयं तर्हि शिथिरासीत् तेषाम् इन्द्रः पक्षान् अछिनत् तैर् इमाम् अदृंहद् ये पक्षा आसंस् ते जीमूता अभवंस् तस्माद् एते सददि पर्वतम् उपप्लवन्ते योनिर् ह्य् एषाम् एष ततो यः प्रथमो रसः प्राक्षरत् तानि करीराण्य् अभवंस् तद् एतद् उत् प्रावृषि जीमूताः प्लवन्ते यजन्ते वरुणप्रघासैः करीराणि भवन्ति वृष्टिं तैः सन्तनोति तस्मात् तर्हि भूयिष्ठं वर्षति वृष्टिं हि सन्तनोति न वै वैश्वदेव उत्तरवेदिम् उपवपन्त्य् उपात्र वपन्ति प्रजाताः प्रजाः प्रतिगृभ्णाद् इति येयम् उत्तरा वेदिर् या अत्रीः प्रजास् तासाम् एषा योनिस् ता एताम् अनुप्रजायन्ते येयं दक्षिणा वेदिर् या आद्याः प्रजास् तासाम् एषा योनिस् ता एताम् अनुप्रजायन्त उभयीर् एव प्रजाः प्रजनयत्य् अत्रीश् चाद्याश् चायं वाव हस्ता आसीन् नायं तद् येयं दक्षिणा वेदिस् तयेमम् अविन्दंस् तस्माद् एष एतस्य परिवेष्टा कनीयान् हि तस्मात् कनीयान् ज्यायांसं परिवेवेष्टि समे प्राची भवतः समौ हीमौ प्राञ्चौ हस्ता असम्भिन्ने भवतः सर्वस्यांहसो ऽवेष्ट्यै यत् सम्भिन्द्युर् अनवेष्टम् अंहः स्याद् एकस्यां पश्चात् सम्भिनत्त्य् अनुसन्तत्यय् उपेमां वपति नेमाम् अन्वभ्यारोहाय क्षत्रं वा इन्द्रो विण् मरुतो नाना यजतः पापवसीयसस्य व्यावृत्त्यै यद् एवाध्वर्युः करोति तत् प्रतिप्रस्थाता करोति तस्माद् यद् राजा करोति तद् विट् करोति न वै वैश्वदेवे त्रिंशद् आहुतयः सन्ति न साकमेधेषु वरुणप्रघासेषु वाव त्रिंशद् आहुतयो वैराजो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा यत् तर्ह्य् अवभृथम् अभ्यवयन्ति यजमानस्य निर्वरुणत्वाय यद् वै यज्ञस्य स्वगाकृतिं न प्राप्नोति तद् वरुणो गृह्णाति यन् निष्काषेणावभृथम् अभ्यवयन्ति यद् एवात्र वरुणय्स्य न्यक्तं तस्यैषा निरवत्तिर् अनपेक्षमाणा आयन्ति वरुणस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव वरुणं निरवदयन्त एधो ऽस्य् एधिसीमहीति निर्वरुणा एव भूत्वैधितुम् उपयन्ति समिद् असि समेधिषीमहीति समिद्ध्या एव ॥म्स्_१,१०।१३॥
सम्भिन्द्युर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अन्वभ्यारोहाय : फ़्न् एमेन्देद्। एद्।: अन्वभ्यारोहयत्। क्स्।३६।७:७४।१९: अनभ्यारोहाय