१२

यद् वै प्रजा वरुणो गृह्णाति शम्यं चैव यवं चापि न गृह्णाति हेमन्तो हि वरुणो या एवावरुणगृहीतौ ताभ्याम् एवैना वरुणान् मुञ्चति वरुणो वै यवो वरुणदेवत्यः स्वेनैवैना भागधेयेन वरुणान् मुञ्चत्य् अनृताद् वै ताः प्रजा वरुणो ऽगृह्णाद् यद् एता अनृतपशू अनृताद् एवैना वरुणान् मुञ्चतो मिथुनौ भवतो मिथुना एव प्रजा वरुणान् मुञ्चतो लोमशौ भवतो मेध्यत्वाय ये हि पशवो लोम जगृहुस् ते मेधं प्रापुः शमीपर्णानि भवन्ति शन्त्वाय भूर्जो वै नामैष वृक्षः कार्या एतस्य स्रुचः प्रजापतिर् वा अन्नाद्यम् अवरुन्धं नाशक्नोत् तञ् शतेध्मेनावारुन्द्ध परःशतानि कार्याण्य् अन्नाद्यस्यावरुद्ध्यै सहस्रेध्मो ह त्व् एवांहसो ऽवेष्टिं विव्याच परःसहस्राणि कार्याणि सर्वस्यांहसो ऽवेष्ट्यै यदा पात्राणि जुह्वत्य् अथाग्निं सम्मार्ष्टि यस्मिन्न् एवांहो ऽवायाक्षुस् तस्मिन्न् उत्पूते देवता यजा इतीन्द्रो वै यतीन्त् सालावृकेयेभ्यः प्रायछत् तेषां वा एतानि शीर्षाणि यत् खर्जूराः सोमपीथो वा एषो ऽस्या उदैषद् यत् करीराणि सौम्यानि वै करीराणि सौमी ह त्व् एवाहुतिर् अमुतो वृष्टिं च्यावयति यत् करीराणि भवन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यै ॥म्स्_१,१०।१२॥
एवांहसो : फ़्न् क्स्।३६।६:७४।१: ह त्वा अंहसो