ऋतं वै सत्यं यज्ञो ऽनृतं स्त्र्य् अनृतं वा एषा करोति या पत्युः क्रीता सत्य् अथान्यैश् चरत्य् अनृतम् एव निरवदाय ऋतं सत्यम् उपैति यन् मिथुया प्रतिब्रूयात् प्रियतमेन याजयेद् अथ यद् वाचयति मेध्याम् एवैनां करोत्य् आमपेषा भवन्ति सर्वस्यांहसो ऽवेष्ट्यै यद् भृज्येयुर् अनवेष्टम् अंहः स्यात् पात्रेभ्यो वै ताः प्रजा वरुणो ऽगृह्णाद् यत् पात्राणि पात्रेभ्य एवैना वरुणान् मुञ्चति प्रतिपुरुषं भवन्ति प्रतिपुरुषम् एवांहो ऽवयजत्य् एकम् अधि भवति गर्भेभ्यस् तेन निरवदयते ऽन्नाद् वै ताः प्रजा वरुणो ऽगृह्णाच् छूर्पेणान्नं बिभ्रति तस्माञ् शूर्पेण जुहुतः स्त्रीपुंसौ जुहुतो मिथुना एव प्रजा वरुणान् मुञ्चतः पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ जुहुतः पुरस्ताद् एवांहो ऽवयजतो यत् प्रात्राणि य एव द्विपादः पशवो मिथुनास् तेषाम् एतत् पुरस्ताद् अंहो ऽवयजतो ऽथ यन् मेषश् च मेषी च य एव चतुष्पादः पशवो मिथुनास् तेषाम् एतद् उपरिष्टाद् अंहो ऽवयजत उभयत एवांहो ऽवयजतः पुरस्ताच् चोपरिष्टाच् च ॥म्स्_१,१०।११॥