०८

प्राणेभ्यो वै ताः प्रजाः प्राजायन्त प्राणा वा एतानि नव हवींषि नव हि प्राणा आत्मा देवता ततः प्रजायते नव प्रयाजा नवानुयाजा द्वा आज्यभागव् अष्टौ हवींष्य् अग्नये समवद्यति वाजिनो यजति तत् त्रिंशस् त्रिंशदक्षरा विराड् विराज्य् एव प्रतितिष्ठति विराजो वै योनेः प्रजापतिः प्रजा असृजत विराजो वा एतद् योनेर् यजमानः प्रजायते त्रिंशत्त्रिंशद् वै रात्रयो मासो यो मासः स संवत्सरः संवत्सरः प्रजापतिस् तत् प्रजापतेश् च वा एतद् विराजश् च योनेर् मिथुनाद् यजमानः प्रजायत एकैकया वा आहुत्या द्वादशद्वादश रात्रीर् अयुवत ता यावतीः सङ्ख्याने तावतीः संवत्सरस्य रात्रयः संवत्सरम् एव भ्रातृव्याद् युवते वैश्वदेवेन चतुरो मासो ऽयुवत वरुणप्रघासैः परांश् चतुरः साकमेधैः परांश् चतुरस् तान् एव भ्रातृव्याद् युवत ऋतुयाजी वा अन्यश् चातुर्मास्ययाज्य् अन्यो यो वसन्तो ऽभूत् प्रावृड् अभूञ् शरद् अभूद् इति यजते स ऋतुयाज्य् अथ यस् त्रयोदशं मासं सम्पादयति त्रयोदशं मासम् अभियजते स चातुर्मास्ययाज्य् ऋजूंस् त्रीन् इष्ट्वा चतुर्थम् उत्सृजेत ऋजू द्वौ परा इष्ट्वा तृतीयम् उत्सृजेत ये वै त्रयः संवत्सरास् तेषां षट्त्रिंशत् पूर्णमासा यौ द्वौ तयोश् चतुर्विंशतिस् तद् ये ऽमी षट् त्रिंशत्य् अधि तान् अस्यां चतुर्विंशत्याम् उपसम्पादयत्य् एष वाव स त्रयोदशो मासस् तम् एवैतत् सम्पादयति तम् अभियजते वैश्वदेवेन यजेत पशुकामो न वरुणप्रघासैर् न साकमेधैः सर्वो वै पुरुषः साहस्रो जायते यावत्तरसं त्व् एवैति प्रजननं वा एतद् धविर् यद् वैश्वदेवं यद् वैश्वदेवेन यजते प्रजननाय वा एतद् यजते स्वां मात्रां गछानीति स यदा सहस्रं पशून् गछेद् अथ वरुणप्रघासैर् यजेत यद् एवादः सहस्रम् अगंस् तस्यैतद् अंहो ऽवयजति ॥म्स्_१,१०।८॥
विराड् : फ़्न् ⟨ विराज्
एव : फ़्न् एमेन्देद्। एद्।: विराजेव
यजेत : फ़्न् एमेन्देद्। एद्।: यजते

यद् बर्हिः प्रयाजेषु यजत्य् ओषधीस् तद् यजति यद् बर्हिर् अनुयाजेषु फलं तद् यद् बर्हिर् वारितीनां यद् एवादः फलात् प्रजायते तद् एतद् यजति यद् दुर उपस्थं तद् यद् उषासानक्ता व्युष्टिं चैव निम्रुक्तिं च यज् जोष्ट्री यद् एव जातं च जनिष्यमाणं च यद् ऊर्जाहुती यद् एवात्ति च पिबति च यद् दैव्या होतारेमे एव यत् तिस्रो देवीर् वाग् वै तिस्रो देवीर् वाचं वा एतद् यजत्य् अथो छन्दांसि वै वाक् छन्दांसि वा एतद् यजति तनूनपाद् वै यज्ञो ऽप्रसृतो नराशंसः प्रसृतस् तस्मात् तनूनपातं प्रयाजेषु यजत्य् अप्रसृतो हि तर्हि यज्ञस् तस्माद् उ नराशंसम् अनुयाजेषु यजति प्रसृतो हि तर्हि यज्ञो वनस्पतिं यजति सोमो वै वनस्पतिः सौमीर् इमाः प्रजाः प्रजास्व् एव रसं दधाति त्वष्टारं यजति त्वष्टा हि रूपाणि विकरोति वाजिनो यजति पशवो वै वाजिनस् तान् वा एतद् यजत्य् अथो छन्दांसि वै वाजिनश् छन्दांसि वा एतद् यजति पशवो वै वाजिनस् तन् न संस्थाप्यं यत् संस्थापयेत् तान् एव संस्थापयेद् असंस्थिता ह्य् एते सददि प्रजायन्ते न वा एष सुयज्ञ इव संस्थिते हि प्रहृतेषु परिधिषु जुहोति यद् अव्यवानन् यजति तेन यज्ञः क्रियते ऽनुयजति समिष्ट्या एव प्रतिष्ठित्यै बर्हिर् अनुषिञ्चन् गृह्णात्य् ऋषभेष्व् एव रेतो दधात्य् ऊर्ध्वज्ञुर् आसीनो यजत्य् ऊर्ध्वज्ञवो हि पशवः पशुषु रेतो दधत्य् अथो जूर्ध्वज्ञुर् हि प्रजापतिः प्रजा असृजत दिग्भ्यो जुहोतीमा एव दिशो रसेन व्युनत्ति प्राचीम् उत्तमां जुहोति प्राचीम् एव दिशं पुनर् उपावर्तन्ते समुपह्वयन्ते सोमपीथ इव ह्य् एष ऋत्विजः प्राश्नन्ति ॥