ता वैश्वदेवेन सृष्टा विषूचीर् व्युदायंस् ताः प्रजापतिर् द्यावापृथिवीयेन पर्यगृह्णाद् यद् द्यावापृथिवीयः प्रजानां सृष्टानां परिगृहीत्यै यद् एककपालस् तेन प्राजापत्यः प्रजापता एव देवतासु प्रतितिष्ठति यजमानो वा एककपाल आहवनीयः स्वर्गो लोको यत् सर्वहुतं करोति हविर्भूतम् एवैनं स्वर्गं लोकं गमयति यजमानं वै हूर्छन्तं प्रजा अनुहूर्छन्ति यजमानं प्रतितिष्ठन्तं प्रजा अनुप्रतितिष्ठन्त्य् ऋजुर् होतव्यः प्रतिष्ठित्यै सर्वहुतं करोति प्रतिष्ठित्यै यजमानो वा एककपालः पशवो घृतं तद् अभिपूर्यः पशुभिर् एवैनं समर्धयति यद् अभिपूरयेद् अधरम् एनं पशुभ्यः कुर्याद् अभुञ्जन्त एनं पशवा उपतिष्ठेयुर् आविःपृष्ठः कार्यः पशुभ्य एवैनम् उत्तरम् अकर् भुञ्जन्त एनं पशवा उपतिष्ठते तन् न सूर्क्ष्यम् अभिपूर्य एव न हि पशवो न भुञ्जन्ति यत् प्राङ् पद्येत यजमानः प्रमीयेत यद् दक्षिणा प्रजाम् अस्य निर्दहेद् यत् प्रत्यङ् पत्नी प्रमीयेत यद् उदङ् पशून् अस्य निर्दहेद् यद् उत्तानः पतेत् पर्जन्यो ऽवर्षुकः स्यात् पुनरादायाभिघार्य होतव्यो यजमानस्य प्रतिष्ठित्यै वरो दक्षिणा वरेनैव वरं स्पृणोत्य् आत्मा हि वरस् त्रेधासन्नद्धं बर्हिर् भवति त्रेधासन्नद्ध इध्मस् त्रेधाविहितानि चातुर्मास्यानि संवत्सरं वै चातुर्मास्यानि संवत्सरेणाग्निं मन्थन्त्य् अग्निं वै प्रजा अनुप्रजायन्ते प्रजननो वा एष मथ्यते ऽथो वृषाणं वा एतद् यजमानाय जनयन्ति वसन्ता यष्टव्यं प्रजननाय प्रवणे यष्टव्यं प्रजननाय नोत्तरवेदिम् उपवपन्ति प्रजननाय प्रस्वो भवन्ति प्र मा जनयानीति पशवो वै पृषदाज्यं नानारूपा वै पशवस् तस्मान् नानारूपम् आग्नेयं घृतम् ऐन्द्रं दध्य् ऐन्द्राग्नं पृषदाज्यं देवतया प्राणापानौ वा इन्द्राग्नी मिथुनं प्राणापानौ मिथुनयोनयः प्रजा मिथुनात् खलु वै प्रजाः पशवः प्रजायन्ते तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते यदि वसन्ता यजेत द्विर् उपस्तृणीयात् सकृद् अभिघारयेद् ओषधयो वै पशव ओषधीष्व् एव पशून् प्रतिष्ठापयति यदि प्रावृषि यजेत सकृद् उपस्तृणीयाद् द्विर् अभिघारयेद् वृष्ट्यैव पशून् अभिजिघर्ति ॥म्स्_१,१०।७॥