मिथुनं वै दधि च शृतं चाथ यत् संसृष्टम् आण्डम् इव मस्त्व् इव परीव ददृशे गर्भ एव स तपसो वै प्रजाः प्राजायन्त तपस्त्वं वा एतद् गछति यञ् शृतत्वं गछति ततः प्रजायते ऽथैषा वैश्वदेव्य् आमिक्षा प्रजापतिः प्रजा असृजत ता वैश्वदेवेनैवासृजत तस्माद् इमा वैश्वदेवीः प्रजा विश्वान् देवान् यजति स्तोका वै विश्वे देवास् तान् वा एतद् यजत्य् अथो अमुतःप्रदानाद् धि मनुष्या यज्ञम् उपजीवन्ति योनिर् वा एष प्रजानां तं मरुतो ऽभ्यकामयन्त ततो ऽंहोगृहीता असृज्यन्त यत् स्वतवद्भ्यः स्वत्वायैव निष्कृत्यै प्रजननो वा एष पशूनां यन् मारुतः सप्तकपालो भवति सप्त हि मरुतो विण् मरुतो ऽथो निरवत्त्या एव मारुतो ऽथो ग्राम्यम् एवैतेनान्नाद्यम् अवरुन्द्धे ॥म्स्_१,१०।६॥