०५

देवाश् च वा असुराश् चास्मिंल् लोक आसन्त् स प्रजापतिर् अकामयत प्रासुरान् नुदेय प्रजाः सृजेयेति स चातुर्मास्यान्य् अपश्यच् चातुर्मास्यैर् वै सो ऽसुरान् प्रानुदत चातुर्मास्यैः प्रजा असृजत तद् य एवं विद्वांश् चातुर्मास्यैर् यजते प्र भ्रातृव्यं नुदते प्र प्रजया च पशुभिश् च जायते ऽग्निष्टोमाद् वैश्वदेवं यज्ञक्रतुं निर्माय प्रजापतिः प्रजा असृजतोक्थ्याद् वरुणप्रघासान् यज्ञक्रतुं निर्मायेमाः प्रजा वरुणेनाग्राहयद् अतिरात्रात् साकमेधान् यज्ञक्रतुं निर्मायेन्द्रो वृत्रम् अहन् सृष्टा वा अन्याः प्रजा आसन्न् असृष्टा अन्या अथ प्रजापतिर् अकामयत प्रजाः सृजेयेति संवत्सरो वै यज्ञो यज्ञः प्रजापतिः स एते मिथुने पयसी आत्मन्न् अधत्तोधन्यं च वह्यं चाथैताभ्यो देवताभ्य एतानि हवींषि भागं निरवपत् तैः प्रजा असृजत ऋतुभ्यो वै ताः प्रजाः प्राजायन्त ऋतवो वा एतानि पञ्च हवींषि पञ्च ह्य् ऋतवस् ततः प्रजायते ऽग्निर् एव प्रावापयत् सोमो वै रेतो ऽदधान् मिथुनं वा अग्निश् च सोमश् च सविता प्रासुवत् प्रजननाय संवत्सरो वै सविता द्वादश मासाः संवत्सरस् तस्माद् द्वादशकपालो ऽथो वैश्वदेवत्वायैव द्वादशकपाल उपांशु यजत्य् अनिरुक्तो हि संवत्सरः सरस्वत्य् एव सृष्टासु वाचम् अदधात् पूषणं प्रतिष्ठाम् अभ्यसृज्यन्त वाग् वै सरस्वती पशवः पूषा मिथुनं वाक् च पशवश् च मध्यतः प्रजापतिनासृज्यन्तान्ततो मिथुनाद् विषूचीः प्राजायन्त तन् मध्यत एवैतत् प्रजापतिना सृज्यन्ते ऽथादो ऽन्ततो मिथुनाद् विषूचीः प्रजायन्ते वार्त्रघ्नानि वा एतानि हवींष्य् अग्निना वा अनीकेनेन्द्रो वृत्रम् अहन् सोमेन राज्ञा सवितृप्रसूतः सरस्वत्या चेत्रा पूषैनं वीर्येणान्वतिष्ठत विजितिर् वा एतानि हवींषीन्द्रो वै वृत्रम् अहन् स विष्वङ् वीर्येण व्यार्छत् तद् इदं सर्वं प्राविशद् अप ओषधीर् वनस्पतींस् तेन देवा अश्राम्यंस् तत् समनयंस् तत् सान्नाय्यस्य सान्नाय्यत्वं तद् य एवं विद्वान्त् सान्नाय्येन यजत ऋध्नोति ॥म्स्_१,१०।५॥