ऋध्यामा ता ओहैः ॥म्स्_१,१०।३॥
आखुं ते रुद्र पशुं करोम्य् एष ते रुद्र भागस् तं जुषस्व सह स्वस्राम्बिकया स्वाहा ॥
अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् ।
यथा नो वस्यसस् करद् यथा नः श्रेयसस् करत् ।
यथा नो भूयसस् करद् यथा नः प्रतरं तिराद् यथा नो व्यवसाययात् ॥
भेषजं गवे अश्वाय पुरुषाय भेषजम् ।
अथो अस्मभ्यं भेषजं सुभेषजं यथासति सुगं मेषाय मेष्यै ॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥
रुद्रैष ते भागस् तेनावसेन परो मूजवतो ऽतीहि ॥