अपामित्यम् इव सम्भर को अम्बाददते ददत् ॥म्स्_१,१०।२॥
अत्र पितरो मादयध्वम् ॥
सुसन्दृशं त्वा वयं वसो मघवन् मन्दिषीमहि ॥
प्र नूनं पूर्णवन्धुरः स्तुतो यासि वशं अनु योजा न्व् इन्द्र ते हरी ॥
यद् अन्तरिक्षं पृथिवीम् उत द्यां यन् मातरं पितरं वा जिहिंसिम ।
अग्निर् नस् तस्माद् एनसो गार्हपत्या उन्निनेतु दुष्कृताज् जातवेदाः ॥
अमीमदन्त पितरो नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो रसाय नमो वः पितरो यज् जीवं तस्मै नमो वः पितरो यद् घोरं तस्मै स्वधा वः पितरो नमो नमो वः पितरः ॥
एषा युष्माकं पितर इमा अस्माकं जीवा वो जीवन्तः इह सन्तः स्याम ॥
परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्वेभिः ।
दधथ नो द्रविणं यच् च भद्रं रयिं च नः सर्ववीरं नियछत ॥
अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः ।
स प्रत्यङ्ङ् ऐद् धरुणो मध्वो अग्रं स्वां यत् तनूं तन्वाम् ऐरयत ॥
प्रत्यङ्ङ् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ॥
मनो व्याहुवामहे नाराशंसेन स्तोमेन ।
पितृणां च मन्मभिः ॥
आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातं सचेमहि ॥
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।