०१

आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो द्वादशकपालः सारस्वतश् चरुः पौष्णश् चरुर् मारुतः सप्तकपालो वैश्वदेव्य् आमिक्षा द्यावापृथिवीया एककपालो वाजिनां वाजिनम् आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् ऐन्द्राग्नो द्वादशकपालो मारुत्य् आमिक्षा वारुण्य् आमिक्षा काय एककपालो वाजिनां वाजिनम् अग्नये ऽनीकवते प्रातर् अष्टाकपालो मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने चरुर् मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्धे सायम् ओदनम् इन्द्रस्य निष्काषो मरुद्भ्यः क्रीडिभ्यः साकं रश्मिभिः सप्तकपाल आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् ऐन्द्राग्नो द्वादशकपाल इन्द्राय वृत्रघ्ने चरुर् वैश्वकर्मण एककपाल आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् वायव्या यवागूः प्रतिधुग् वेन्द्राय शुनासीराय द्वादशकपालः सौर्य एककपालः षट्कपालः पुरोडाशो धाना मन्थः प्रतिपुरुषं पुरोडाशा एकश् चाध्य् आदित्यश् चरुः ॥म्स्_१,१०।१॥

अग्ने वेर् होत्रं वेर् दूत्यम् ऊर्ध्वो अध्वरो अस्थाद् अवतां नो द्यावापृथिवी स्विष्टकृद् इन्द्राय देवेभ्यो भवास्य घृतस्य हविषो जुषाणो वीहि स्वाहा ॥

प्रघास्यान् हवामहे मरुतो यज्ञवाहसः ।
करम्भेण सजोषसः ॥

मो षू ण इन्द्रात्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवयाः ।
मही चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥

यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।
यद् एनश् चकृमा वयं यद् अप्सश् चकृमा वयम् ।
तद् एकस्यापि चेतसि तद् एकस्यापि धर्मणि ।
तस्य सर्वस्यांहसो ऽवयजनम् असि ॥

अक्रन् कर्म कर्मकृतः सह वाचा मयोभ्वा ।
देवेभ्यः कम्र कृत्वास्तं प्रेत सुदानवः ॥

पूर्णा दर्वे परा पत सुपूर्णा पुनर् आपत ।
वस्नेव विक्रीणावहा इषम् ऊर्जं शतक्रतो ॥

देहि मे ददामि ते नि मे धेहि नि ते दधौ ।