०८

देवाश् च वा असुराश् चास्पर्धन्त ते वै समावद् एव यज्ञे कुर्वाणा आयन् यद् एव देवा अकुर्वत तद् असुरा अकुर्वत तेन व्यावृतम् अगछंस् ते देवा अब्रुवन्न् एतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामहा इति तम् एतावञ्श आदायोदक्रामन्न् अग्निर् यजुर्भिः सविता स्तोमैर् इन्द्र उक्थामदैर् बृहस्पतिश् छन्दोभिर् इति तं तिर उपर्य् असुरेभ्यो ऽतन्वत तम् एषां यज्ञम् असुरा नान्ववायंस् तेन वा एनान् अपानुदन्त ततो देवा अभवन् परासुरास् तद् य एवं वेद तिर उपरि भ्रातृव्याद् यज्ञं तनुते भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश्चतुर्भिर् अन्वाक्शायं पुरस्तात् प्रातरनुवाकस्यैतावान् वै यज्ञो यावान् एव यज्ञस् तं वृङ्क्ते सयज्ञो भवत्य् अयज्ञा इतर एतैर् एव जुहुयात् पुरस्ताद् दीक्षाया एषा वै प्रत्यक्षं दीक्षा ताम् एवालब्धैतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्यैष वै प्रत्यक्षं द्वादशाहस् तम् एवालब्धैतैर् एवातिथ्यम् अभिमृशेद् यज्ञेनैव यज्ञम् आलब्ध दक्षिणतो वै देवान् असुरा यज्ञम् अजयंस् त उदञ्चः पत्नीभिः सहाग्नीध्रं प्राविशंस् तान् पत्नीभिः सह प्रक्शाय जिह्रियतो ऽसुरा अपावर्तन्त तांस् तत एवानूत्थायाजयंस् ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति नास्य भ्रातृव्यो गृहान् न पशून् अभ्यारोहत्य् अभि भ्रातृव्यस्य गृहान् अभि पशून् आरोहति य एवं वेदैतान्य् एवाग्नीधे ऽनुब्रूयाद् अग्नीद् वै पात्नीवतस्य यजति तृप्ता पत्नी रेतो धत्ते प्र प्रजया च पशुभिश् च प्रजायत एतैर् एव जुहुयाद् अन्तरा त्वष्टारं च पत्नीश् च संवत्सरं प्रजाकामो मिथुनं वै त्वष्टा च पत्नीश् च त्वष्टारं वा एतन् मिथुने ऽप्यस्राट् प्रजननाय तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते विन्दते प्रजाम् आस्य वीरो जायते यदि संवत्सरं जुह्वन् न विन्देन् नादृत्यम् ॥म्स्_१,९।८॥
जिह्रियतो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।