ब्रह्मवादिनो वदन्ति यद् एको यज्ञश् चतुर्होताथ कस्मात् सर्वे चतुर्होतार उच्यन्ता इति चत्वारो वा एते यज्ञास् तेषां चत्वारो होतारस् तच् चतुर्होतृणां चतुर्होतृत्वं चतुर्णाम् एकः संवत्सरं नाश्नीयात् तद् व्रतम् अन्नं वै चतुर्होतारो ऽन्नवान् भवति य एवं वेदाथ यम् अनूचानं सन्तं नोपनमेत् सो ऽरण्यं परेत्य ब्राह्मणम् उपद्रष्टारं कृत्वा चतुर्होत्πन् व्याचक्षीत ब्रह्मणो वा एतद् उदरणं यच् चतुर्होत्रारो ब्राह्मण उपद्रष्टोपद्रष्टुर् एवान्ते ब्रह्माविर् अकस् तद् एनम् आविर्भूतम् आविदं गमयत्य् अथ यौ विशपेयाताम् अहं भूयो वेदाहं भूयो वेदेत्य् एष वाव भूयो वेद यश् चतुर्होत्πन् वेद चतुर्होतारो वै यज्ञस्य योनिश् चतुर्होतृभ्यो ऽधि यज्ञो निर्मितो नैनं विशप्तं हिनस्ति चतुर्होतारं वदेद् दशमे ऽहन्न् अन्नकामो ऽन्नं वै चतुर्होतारो ऽन्तो दशमम् अहर् अन्तम् एव गत्वान्नाद्यम् अवरुन्द्ध एतद् वा अस्यैतर्ह्य् अप्रयुक्तम् एतद् अनवरुद्धं तद् एव प्रयुङ्क्ते तद् अवरुन्द्ध इयं वै सर्पराज्ञी तस्या वा एतद् उक्थं यच् चतुर्होतारो होता वदति स्तुतं वा एतद् अनुशंसति न हि स्तुतम् अननुशस्तम् अस्ति ॥म्स्_१,९।७॥