यः प्रजया पशुभिर् न प्रजायेत स द्वादशाहानि बरासीं परिधाय तप्तं पिबन्न् अधः शयीत तपो वै तप्त्वा प्रजापतिर् विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश् च प्राजायताविहितो हि वा एषो ऽमिथुनो ऽथैष न प्रजायते तत् तप एव तप्त्वा विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश् च प्रजायते प्रजापतिर् वै दशहोता ज्यायान् वै प्रजापतिर् होमात् तस्मात् तन् न जुह्वति प्राण्यापानेद् अपानम् एव प्राणं जुहोति सङ्ग्रामिणं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं चतुर्होत्रा वै देवा इन्द्रम् अजनयन् यतरस्मिन् खलु वै सङ्ग्राम इन्द्रो भवति स जयतीन्द्रं वावास्यैतत् सङ्ग्रामे ऽजीजनद् जयति सङ्ग्रामं प्रजाकामं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं चतुर्होत्रा वै देवा इन्द्रम् अजनयन् प्रजाम् अस्मै जनयति नेव त्व् अपरो ऽनुजायते तेजस्वीव तु भवति सर्वेण ह्य् एनम् इन्द्रियेण जनयति पशुकामं पञ्चहोत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवाः पशून् असृजन्त पशून् एव सृजते भ्रातृव्यवन्तं पञ्चहोत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवा असुरान् पराभावयन् परा पाप्मानं भ्रातृव्यं भावयति स्वर्गकामं पञ्चहोत्रा याजयेच् चतुर्गृथीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति यो यज्ञस्य संस्थाम् अनु पापीयान् मन्येत तं सप्तहोत्रा याजयेत् सप्तहोत्रा वै देवा इदं समतन्वन् समतत ताजक् तादृङ् पुनर् भवति यादृक् सन् यजते ॥म्स्_१,९।६॥