०५

ते वै स्वर्यन्तो ऽब्रुवन्न् अतो नो यूपं प्रयछत केनायतनेनात्रैव वेत्स्यथेत्य् अब्रुवंस् ते वै सप्तहोतारो न्यसीदन्न् अर्यमगृहपतयो महाहविर् होतासीत् सत्यहविर् अध्वर्युर् अचित्तपाजा अग्नीद् अचित्तमना उपवक्तानाधृष्यश् चाप्रतिधृष्यश् चाभिगरा अयास्य उद्गाता ते वा एतं ग्रहम् अगृह्णत विधे नामन्विधेम ते नाम विधेस् त्वम् अस्माकं नामेति ते त्रयस्त्रिंशम् आयतनम् अचायंस् तेनेदं समतन्वन् सप्तहोत्रा च वा इदं सन्ततं त्रयस्त्रिंशेन च यद् इदं देवमनुष्या अन्यो ऽन्यस्मै सम्प्रयच्छते प्राणो वै दशहोता चक्षुश् चतुर्होता श्रोत्रं पञ्चहोता वाक् चात्मा च सप्तहोताग्निहोत्रं वै दशहोता दर्शपूर्णमासौ चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्यो ऽध्वरः सप्तहोतायुषे कम् अग्निहोत्रं हूयते सर्वम् आयुर् एति य एवं वेद चक्षुषे कं दर्शपूर्णमासा इज्येते न चक्षुषो गृहे य एवं वेद श्रोत्राय कं चातुर्मास्यानीज्यन्ते न श्रोत्रस्य गृहे य एवं वेद वाचे चात्मने च कं सौम्यो ऽध्वर इज्यते न वाचो नात्मनो गृहे य एवं वेद प्रजापतिर् वै दशहोतैकः सन् भूयिष्ठभाग् व्याहृतीनाम् एकः सन् भूयिष्ठो भवति य एवं वेद तेजसे कं पूर्णमा इज्यते सौम्यो वै ब्राह्मणो देवतया गायत्रछन्दा गायत्रो ऽग्निः स्वे वावास्मा एतद् देवते सप्रस्थे अकर् नास्यान्यो योगक्षेमस्येश आयुषे कम् अमावास्येज्यते समीव वा एष आभ्रियते सर्वम् आयुर् एति य एवं वेद स्वर्गाय लोकाय कं सौम्यो ऽध्वर इज्यत एति स्वर्गं लोकं य एवं वेद दशहोत्राग्निहोत्रम् उन्नीतम् अभिमृशेद् दशहोत्रा वै देवा अग्निहोत्रम् असृजन्त प्रजातम् एनत् सृष्टम् आलब्ध चतुर्होत्रा दर्शपूर्णमासा अभिमृशेच् चतुर्होत्रा वै देवा दर्शपूर्णमासा असृजन्त प्रजाता एनौ सृष्टा आलब्ध पञ्चहोत्रा चातुर्मास्यान्य् अभिमृशेत् पञ्चहोत्रा वै देवाश् चातुर्मास्यान्य् असृजन्त प्रजातान्य् एनानि सृष्टान्य् आलब्ध सप्तहोत्रा सौम्यम् अध्वरम् अभिमृशेत् सप्तहोत्रा वै देवाः सौम्यम् अध्वरम् असृजन्त प्रजातम् एनं सृष्टम् आलब्ध दशहोतारं वदेत् पुरस्तात् सामिधेनीनां प्रजापतिर् वै दशहोता यज्ञमुखं सामिधेन्यस् मिथुनं वावास्यैतद् यज्ञमुखे दधाति चतुर्होतारं वदेत् पुरस्तात् प्रयाजानां चतुर्होत्रा वै देवा इन्द्रम् अजनयन्न् इन्द्रं वावास्यैतद् यज्ञे ऽजीजनत् सेन्द्रेण यज्ञेन यजते पञ्चहोतारं वदेत् पुरस्ताद् धविषां पञ्चहोत्रा वै देवाः पशून् असृजन्त परासुरान् अभावयन् पशून् एव सृजते परा भ्रातृव्यं भावयति सप्तहोतारं वदेत् पुरस्ताद् अनुयाजानां सप्तहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति दशहोतारं वदेत् पुरस्ताद् बहिष्पवमानस्य प्रजापतिर् वै दशहोता यज्ञमुखं बहिष्पवमानं मिथुनं वावास्यैतद् यज्ञमुखे दधाति चतुर्होतारं वदेत् पुरस्ताद् आज्यानां पञ्चहोतारं वदेत् पुरस्तान् माध्यन्दिनस्य पवमानस्य सप्तहोतारं वदेत् पुरस्ताद् आर्भवस्य पवमानस्य सप्तहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति यो वै चतुर्होत्πन् अनुसवनं तर्पयितव्यान् वेद तृप्यति प्रजया च पशुभिश् चैते वै चतुर्होतारो ऽनुसवनं तर्पयितव्या यद् ब्राह्मणा बहुविदस् तान् एव तर्पयति त एनं तृप्ताः प्रजया च पशुभिश् च तर्पयन्ति ॥म्स्_१,९।५॥
अचित्तपाजा : फ़्न् एमेन्देद्। एद्।: अचित्तपाजा। च्फ़्। १।९।१:१३१।११।
गृहे : फ़्न् एमेन्देद्। एद्।: गृहे।
सप्तहोतारं : फ़्न् एमेन्देद्। एद्।: सप्तहोतरम्।