०३

प्रजापतिर् वा एक आसीत् सो ऽकामयत यज्ञो भूत्वा प्रजाः सृजेयेति स दशहोतारं यज्ञम् आत्मानं व्यधत्त स चित्तिं स्रुचम् अकुरुत चित्तम् आज्यं वाचं वेदिम् आधीतं बर्हिः स दशधात्मानं विधाय मिथुनं कृत्वायतनम् ऐछत् स वै त्रिवृत एव प्राणान् आयतनम् अचायत् तैः प्रजा असृजतोर्ध्वम् उदतृणत् पूर्वपक्षः पञ्चदशस् तेन देवान् असृजत ते देवा ऊर्ध्वा आप्यायन्तोर्ध्व आप्यायते य एवं वेदावाङ् अवातृणद् अपरपक्षः पञ्चदशस् तेनासुरान् असृजत ते ऽसुरा अवाञ्चः प्राध्वंसन्त प्रास्य भ्रातृव्यो ध्वंसते य एवं वेद दिवा देवान् असृजत नक्तम् असुरांस् ते देवाः शुक्ला अभवन् कृष्णा असुराः सत्येन देवान् असृजतानृतेनासुरांस् ते देवाः सत्यम् अभवन्न् अनृतम् असुरा दक्षिणेन हस्तेन देवान् असृजत सव्येनासुरांस् ते देवा वीर्यवन्तो ऽभवन् मृद्धा असुरास् ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति सो ऽमन्यत क्व होष्यामीति स तद् एव नाविन्दत् प्रजापतिर् यत्राहोष्यन् नो अस्यान्यद् धोत्वम् आसीत् प्राणात् स वा इन्द्रम् एवान्तर् आत्मनायतनम् अचायत् स इन्द्रं गछ स्वाहेत्य् अपानद् वीर्यं वै प्राणो वीर्यम् इन्द्रो वीर्य एव वीर्यम् अजुहोत् ॥म्स्_१,९।३॥
भवति : फ़्न् एमेन्देद्। एद्।: ऽभवति।

ते वै चतुर्होतारो व्यसीदन्त् सोमगृहपतया इन्द्रं जनियिष्यामा इति पृथिवी होतासीद् द्यौर् अध्वर्युस् त्वष्टाग्नीन् मित्र उपवक्ता ते वा एतौ ग्रहा अगृह्णत वाचस्पते वाचो वीर्येण सम्भृततमेनायक्षसे यज्ञपतये वार्यम् आ स्वस् कर् इति त एकविंशम् आयतनम् अचायंस् तेनेन्द्रम् अजनयंस् त इन्द्रं जनयित्वाब्रुवन् स्वर् अयामेति ते वै पञ्चहोतारो न्यसीदन् वरुणगृहपतयो ऽग्निर् होतासीद् अश्विनाध्वर्यू रुद्रो अग्नीद् बृहस्पतिर् उपवक्ता यद् अश्विनेति तेन पञ्चहोता ते वा एतौ ग्रहा अगृह्णत वाचस्पते हिन्विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नामेति ते त्रिणवम् आयतनम् अचायंस् तं सेतुं कृत्वा स्वरायंस् तेन पशून् असृजन्त तान् देवताभ्यो ऽनयन् यमायाश्वम् अनयंस् तस्यार्धम् इन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि यमाय त्वा मह्यं वरुणो ददाति सो ऽमृतत्वम् अशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥ इति सो ऽर्धम् इन्द्रियस्योपाधत्तार्धम् इन्द्रियस्योपधत्ते य एवं विद्वान् अश्वं प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णात्य् अर्धम् अस्येन्द्रियस्यापक्रामति रुद्राय गाम् अनयंस् तस्य तृतीयमिन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

रुद्राय त्वा मह्यं वरुणो ददाति सो ऽमृतत्वम् अशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स तृतीयम् इन्द्रियस्योपाधत्त तृतीयम् इन्द्रियस्योपधत्ते य एवं विद्वान् गां प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति तृतीयम् अस्येन्द्रियस्यापक्रामत्य् अग्नये हिरण्यम् अनयंस् तस्य चतुर्थम् इन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥
इन्द्रियस्यापाक्रामत् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अग्नये त्वा मह्यं वरुणो ददाति सो ऽमृतत्वम् अशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स चतुर्थम् इन्द्रियस्योपाधत्त चतुर्थम् इन्द्रियस्योपधत्ते य एवं विद्वान् हिरण्यं प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति चतुर्थम् अस्येन्द्रियस्यापक्रामति बृहस्पतये वासो ऽनयंस् तस्य पञ्चमम् इन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

ग्नास् त्वाकृन्तन्न् अपसो ऽतन्वत धियो ऽवयन् बृहस्पतये त्वा मह्यं वरुणो ददाति सो ऽमृतत्वमशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स पञ्चमम् इन्द्रियस्योपाधत्त पञ्चमम् इन्द्रियस्योपधत्ते य एवं विद्वान् वासः प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति पञ्चमम् अस्येन्द्रियस्यापक्रान्त्य् उत्तानायाङ्गिरसायाप्राणद् अनयंस् तस्य षष्ठमिन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

उत्तानाय त्वाङ्गिरसाय मह्यं वरुणो ददाति सो ऽमृतत्वमशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स षष्ठम् इन्द्रियस्योपाधत्त षष्ठम् इन्द्रियस्योपधत्ते य एवं विद्वान् अप्राणत् प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति षष्ठम् अस्येन्द्रियस्यापक्रामति ॥

क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामाय त्वा प्रतिगृह्णामि कामैतत् ते ॥