०२

अग्निर् यजुर्भिः सविता स्तोमैर् इन्द्र उक्थामदैर् बृहस्पतिश् छन्दोभिर् अदितिर् अपश् च बर्हिश् चादित्या आज्यैर् मरुतः सदोहविर्धानैर् विष्णुर् दीक्षातपोभ्यां मित्रावरुणौ धिष्ण्यैर् अश्विन आशिरा त्वष्टा समिधा पूषा स्वाहाकारैर् वाग् वायोः पत्नी पथ्या पूष्णः पृथिव्य् अग्नेः सेनेन्द्रस्य धेना बृहस्पतेर् गायत्री वसूणां त्रिष्टुब् रुद्राणां जगत्य् आदित्यानाम् अनुष्टुब् मित्रस्य विराड् वरुणस्य पङ्क्तिर् विष्णोर् दीक्षा सोमस्य ॥म्स्_१,९।२॥