०१

चित्तिः स्रुक् चित्तम् आज्यं वाग् वेदिर् आधीतं बर्हिः केतो अग्निर् विज्ञातम् अग्नीद् वाचस्पतिर् होता मन उपवक्ता प्राणो हविः सामाध्वर्युर् इन्द्रं गछ स्वाहा पृथिवी होता द्यौर् अध्वर्युस् त्वष्टाग्नीन् मित्र उपवक्ता वाचस्पते वाचो वीर्येण सम्भृततमेनायक्षसे यज्ञपतये वार्यमा स्वस् कर् वाचस्पतिः सोमम् अपाद् जजनद् इन्द्रम् इन्द्रियाय सोमः सोमस्य पिबतु शुक्रः शुक्रस्य पिबतु श्रातास् त इन्द्र सोमा वातापयो हवनश्रुतो ऽग्निर् होताश्विनाध्वर्यू रुद्रो अग्नीद् बृहस्पतिर् उपवक्ता वाचस्पते हिन्विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नाम वाचस्पतिः सोमम् अपाद् आस्मासु नृम्णं धात् सोमः सोमस्य पिबतु शुक्रः शुक्रस्य पिबतु श्रातास् त इन्द्र सोमा वातापयो हवनश्रुतो महाहविर् होता सत्यहविर् अध्वर्युस् अचित्तपाजा अग्नीद् अचित्तमना उपवक्तानाधृष्यश् चाप्रतिधृष्यश् चाभिगरव् अयास्य उद्गाता विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नाम मा देवानां तन्तुश् छेदि मा मनुष्याणां नमो मात्रे पृथिव्यै ॥म्स्_१,९।१॥